________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं ॥१९९॥
७
च तं युगलिकं श्वेतगजारूढं विलोक्य तस्य विमलवाहन इति नाना सर्वेऽन्ये युगलिनः प्रोचुः । उभयोरपि । कल्पद्रुम जातिस्मरणज्ञानं समुत्पन्नम् । परस्परमधिकप्रीतिरासीत्, कियत्यपि काले गते सति हीनकालस्य महिना ।
कलिका
वृत्तियुक्त. कल्पवृक्षाः यथा पूर्ववाञ्छितदायका आसन तथा न बभूवुः । तदा युगलिनः परस्परं कलिं चक्रुः । खकीयस्य
व्याख्या. खकीयस्य कल्पवृक्षस्य रक्षां कुर्वन्तस्तिष्ठन्ति । एको युगलिकः खकीयं कल्पवृक्षं त्यक्त्वा अपरस्य कल्पवृक्षस्य समीपे मार्गयति तदा तत्स्वामी तेन सह कलिं कुर्वन् विमलवाहनसमीपे आयाति। विमलवाहनश्च हकारनीतिदण्डं तस्य शिरः करोति । विमलवाहनस्य 'हः' इति अक्षरेण दण्डनीतिरभूत् । अन्यदपि4 यदा किञ्चिद् अनुचितं कोऽपि करोति, विमलवाहनस्तस्य हकाराऽक्षरेण दण्डनीतिं ददाति । सोऽपि जानाति मम सर्वखं राज्ञा गृहीतम् । पुनरपि स तत्कार्य न करोति । इयं दण्डनीतिः कियत्यपि काले युगलिनामभूत् । तस्य विमलवाहनस्य चन्द्रयशा भार्याऽभूत् । नवशतधनुष्पमाणं तदा शरीरमानम् आसीत् । ततो द्वितीयो युगलिकश्चक्षुष्मान् कुलकरो बभूव । तार्या चन्द्रकान्ता, तच्छरीरमानम् अष्टशतधनुष्यमाणम् । तस्याऽपि हकारनीतिरेव । ततस्तृतीयो युगलिको यशोमान् कुलकरः । तद्भायर्या सुरूपा, तस्याऽपि हकारेणैव दण्ड
|॥१९९॥ नीतिः । तत्र च सप्तशतधनुष्यमितं देहप्रमाणमभूत् ३ । ततश्चतुर्थो युगलिकोऽभिचन्द्रकुलकरः, तार्या प्रतिरूपा, तस्य मकारेण दण्डनीतिः । सार्द्धषट्शतधनुष्पमितं देहमानं तस्य अभूत् ४ । ततश्च पञ्चमयुगलिकः
For Private and Personal Use Only