________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुभूमिस्वरूपं वदति-इक्ष्वाकुवंशस्तत्र समुत्पन्नः, तेन सा भूमिरिक्ष्वाकुभूमिरुच्यते । सर्वे युगलिकास्तत्रैव उत्पयन्ते । तत्र प्रायो नगरं किमपि नास्ति, तत्र कल्पवृक्षा एवं गृहमनोरथं पूरयन्ति । अथ नाभिकुलकरः ससमः कुलकरोऽस्ति । पूर्व षट् कुलकरास्तत्र बभूवुः । तेषाम् उत्पत्ति-स्थितिखरूपमाह
उस्सप्पिणी इमीए, तईयाइ समाइ पच्छिमे भागे । पलियोवमट्ठभागे, सेसम्मि कुलगरुप्पत्ती॥१॥ __ अर्थ:-अस्याम् एव अवसार्पण्यां तृतीयारकस्य प्रान्ते पल्योपमस्य अष्टमे भागे शेषे सति तदा सप्तकुलकराणाम् उत्पत्तिर्जाता । तेषां कुत्र उत्पत्तिर्जाता तदाह
अद्धभरहमज्झिल्लतियभाए गंगसिंधुमज्झम्मि । इत्थ बहुमज्झदेशे उप्पन्ना कुलगरा सत्त ॥२॥ अर्थः-दक्षिणदिगभरतस्यार्द्धस्य त्रयो भागाः क्रियन्ते, तत्र मध्यदेशे सप्त कुलकरा उत्पन्नाः। तावत् प्रथमकुलकरस्योत्पत्तिं वर्णयति-पश्चिममहाविदेहे द्वौ वणिजौ अभूताम् । तौ च परस्परं मित्रौ, तयोः मध्ये एको मायावी, अपरः सरलखभावः, परस्परं द्रव्यवण्टनवेलायां मायावी सरलं वश्चयित्वा द्रव्यम् , वस्तु च प्रच्छन्नं स्थापयति । सरलश्च निष्कपटं व्यवहरति । एवं तो आयुः प्रपाल्य मृत्वा सरलो वणिम् इक्ष्वाकुभूमौ युगलिकोऽभूत् । अपरो मायावी वणिक तत्रैव प्रदेशे हस्ती जातः । एकदा प्रस्तावे हस्तिना भ्रमता स युगलिकः सरलवणिगजीवो दृष्टः, दृष्ट्वा च प्रीतिवशात् तं युगलिकमुत्पाट्य स्वस्कन्धे आरोग्य तत्र स हस्ती चचाल । अथ
इ.स.
४
For Private and Personal Use Only