________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र ॥१९॥
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
उत्तराषाढानक्षत्रे सर्वार्थसिद्धविमानादू देवलोकात् च्युत्वा जनन्याः कुक्षौ गर्भवेन उत्पन्नः । उत्तराषाढानक्षत्रे जन्म जातम् , उत्तराषाढानक्षत्रे दीक्षां जग्राह । उत्तराषाढानक्षत्रे केवलज्ञानमुत्पन्नम् , अभीचनक्षत्रे निर्वाणमासीत् । इत्यनेन संक्षेपेण श्रीऋषभदेवस्य पञ्च कल्याणकानि उक्तानि । अथ विस्तरत्वेन प्रकाश्यतेते णं काले णं, ते णं समए णं उसभे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे, सत्तमे पक्खे आसाढबहुले तस्स णं आसाढबहुलस्स चउत्थीपक्खे णं सबट्टसिद्धाओ महाविमाणाओ तित्तीसं सागरोवमट्टिइआओ अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे भारहेवासे इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवीए भारियाए पुवरत्तावरत्तकालसमयंसि आहारवर्कतीए, जाव-गब्भत्ताए वकंते ॥ २०६ ॥ अर्थः-तस्मिन् काले, तस्मिन् समये श्रीऋषभदेवोऽर्हन् कौशलिको ग्रीष्मकालस्य चतुर्थे मासे सप्तमे पक्षे आषाढकृष्णचतुर्थीदिने सर्वार्थसिद्धविमानात् ३३ त्रयस्त्रिंशत्सागरोपममिताऽऽयुष्कं प्रपाल्य अनन्तरं च्युतश्युत्वा अस्मिन्नेव जम्बूद्वीपे भरतक्षेत्रे इक्ष्वाकुभूमौ नाभिकुलकरस्य भार्याया मरुदेवायाः कुक्षौ मध्यरात्रसमये देवानाम् आहारव्यतिक्रान्ते देवानां भवव्यतिक्रान्ते, गर्भवेन व्युत्क्रान्तः समुत्पन्नः इत्यर्थः । अथ इक्ष्वा
॥१९
For Private and Personal Use Only