________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेवित्वा तीर्थंकरगोत्रनामकर्म उपार्जितम् । बाहुसाधुना साधूनाम् आहारपानीयमानीय ददता भोगफलं कर्मोपार्जितम् । सुबाहुसाधुना विश्रामणां कुर्वता बाह्वोर्बलमुपार्जितम् । पीठ महापीठाभ्याम् असूयां कुर्वाणाभ्यां स्त्रीवेदकर्म समुपार्जितम् । षष्ठो निर्नामिकाजीवः श्रेयांसो भावी, एवं षडपि जीवाश्चारित्रं प्रपाल्य सर्वेऽपि सर्वार्थसिद्धे विमाने देवत्वेन उत्पन्नाः । इति द्वादशो भवः । अत्र श्री आवश्यकचूण एवं प्रोक्तमस्ति आदी श्वरजीवो वज्रनाभः सर्वार्थसिद्धं गतः ततः पश्चात् षट्पूर्वलक्षाः व्यतीताः, तत्पश्चात् बाहु-सुबाहु पीठ-महापीठप्रमुखाः सर्वार्थसिद्धं गताः, नो चेत्, कथं मिलन्ति आदीश्वरस्य षट्पूर्वलक्षाः जाताः ? ततः पञ्चाद् बाहुप्रमुखा भरतादयः पुत्राः जाताः ॥ अथ ततः च्युत्वा कुत्र उत्पद्यन्ते तत् सूत्रकारः प्राह
णं काले णं, तेणं समए णं उसमे णं अरहा कोसलिए चउ-उत्तरासाढे अभीइपंचमे हुत्था, तं जहा - उत्तरासाढाहिंचुए - चइत्ता गब्भं वक्रेते, जाव - अभीइणा परिनिव्वुए ॥ २०५ ॥
अर्थः- तस्मिन् काले, तस्मिन् समये अवसर्पिणीकाले तृतीयारकस्य प्रान्ते चतुरशीतिपूर्वलक्षाणि चत्वारि वर्षाणि षड्भिर्मासैः किञ्चिन्यूनानि इयति काले शेषे सति अस्मिन् समये श्रीऋषभदेवः कौशलेषु देशेषु भवः कौशलिकः, तस्य चत्वारि कल्याणकानि उत्तराषाढानक्षत्रे जातानि । पञ्चमं कल्याणकम् अभीचनक्षत्रेऽभूत् ।
For Private and Personal Use Only