________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं ॥१९॥
कल्पद्म कालिका वृत्तियुक्त. व्याख्या.
भवः । ततो निरतिचारं चारित्रं प्रपाल्य द्वादशे देवलोके ते षडपि मित्रत्वेन देवाः समुत्पन्नाः । इति दशमो भवः । ततश्युत्वा पूर्वमहाविदेहे पुण्डरीकिण्यां नगर्या वज्रसेनराजा, धारिणी राज्ञी, तस्या उदरे षडपि पुत्राः सञ्जाताषण्णांमध्ये वैद्यस्य जीवश्चतुर्दशस्वमसूचितः, एकादशे भवे पुत्रत्वेन उत्पन्नः। मातृ-पितृभ्यां वज्रनाभः इति नाम दत्तम् । इति एकादशो भवः। तेषां षण्णामपि मित्राणाम् इमानि नामानि नृपसुतजीवो वाहः१ मत्रिसुतजीव: सुबाहुः २ श्रेष्ठिसुतजीवः पीठः ३ सार्थवाहपुत्रजीवो महापीठः ४ निर्नामिकाजीवोऽपि तदा राजपुत्रो बभूव ५ स च वज्रनाभस्य चक्रवर्तिनोऽतीव प्रिय आसीत् । एवं षडपि जीवाः सुखेन तिष्ठन्ति । अथ वननाभचक्रवर्तिनःपिता वज्रसेनो वज्रनाभपुत्रं राज्ये संस्थाप्य लोकान्तिकदेववचसा संवत्सरदानंदच्या प्रव्रज्य कर्म क्षयात् केवलमुत्पाद्य तीर्थकरत्वं प्राण्य विहरन पुण्डरीकिण्यामेव समाजगाम । तत्र समवसरणे पितुस्तीर्थकरस्य देशनां श्रुत्वा ते षडपि प्रव्रज्यां ललुः । तत्र प्रथमो वज्रनाभश्चक्रवर्तिर्दीक्षां गृहीत्वा चतुर्दशपूर्वाणि पपाठ अन्यः पञ्चभिः एकादशाङ्गान्यधीतानि । बाहुसाधुः पञ्चशतसाधूनाम् आहारपानीयम् आदाय ददाति, सुबाहुसाधुस्साधूनां विश्रामणां करोति, पीठ-महापीठौ स्वाध्यायं कुरुतः । अथ बाहु-सुबाहुभ्यां गुरवः प्रशंसन्ति । धन्यौ इमौ मुनी, यो मुनीनां विश्रामणां कुरुतः । तदा पीठ-महापीठौ असूयां कुरुतः । आवां खाध्यायकारको आवाभ्यां गुरवो न श्लाघयन्ति । गुरवोऽपि स्वार्थिनः । अथ वज्रनाभचक्रवर्तिसाधुर्विशतिस्थानकानि |
प्रतिक्षा गृहीत्वा हाय ददाति, सुबाहु
॥१९७||
॥१९५
For Private and Personal Use Only