SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोभी च भवति, यत्र किञ्चित् स्वार्थ पश्यति तत्रैव औषधं करोति । चेद् धर्मात्मा भवति तदा एतादृशः पुण्यक्षेत्रस्य साधोरौषधेन वैयावृत्त्यं करोति।तत् श्रुत्वा वैद्यो वदति-लक्षपाकतैलं मम गृहे वर्तते, परं रत्नकम्बल-गोशीर्षचन्दनं न वर्तेते, यदा एतद् औषधद्वयं भवति तदाऽस्य साधोः वैयावृत्त्यं करोमि, इति श्रुत्वा सार्द्धद्विलक्षद्रव्यं दीनारादिकं लात्वा ते षडपि मित्राः हट्टे गत्वा श्रेष्ठिनो वृद्धस्याऽग्रे द्रव्यं मुक्त्वा रत्नकम्बलवस्त्रम्, गोशीर्षचन्दनं च मार्गयामासुः। तदा स श्रेष्ठी पप्रच्छ-किं कार्य भवतां रत्नकम्बल-चन्दनयोस्ततस्ते साधोः वैयावृत्त्यर्थं प्रोचुः । तत्श्रुत्वा तेषां श्लाघां कृत्वा तद्धनं धर्मार्थ कृत्वा, साधुनिमित्तं कम्बल-चन्दनं च दत्त्वा श्रेष्ठी खयं दीक्षां लावा अन्तकृत्केवली भूत्वा मोक्षं ययौ। अथ ते षडपि भैषज्यसामग्री गृहीत्वा वनमध्ये कायोत्सर्गस्थितस्य कुष्ठिन: साधोरनुजानीध्वमित्युक्त्वा चर्मोपरि रोगिणं साधु स्थापयित्वा वैद्यो लक्षपाकतैलेनाऽभ्यङ्गं चन्दनस्य लेपं कृत्वा उपरि रत्नकम्बलेन शरीरं जुगोप। ततः प्रथमेनाऽभ्यङ्गेन संतप्ताः चर्मस्थाः कृमयः चर्म निर्भेद्य चन्दनस्य शैत्येन रत्नकम्बले आगत्य आगत्य लग्नास्ताः कृमयः एकस्मिन गोकलेवरे निक्षिप्ताः, एवं । द्वितीयेनाभ्यङ्गन मांसस्थाः, तृतीयेनाभ्यङ्गेन अस्थिमज्जास्थाः सर्वाः कृमयो निर्गताः। तदनन्तरं संरोहिण्या औषध्या तस्य सरन्धं शरीरं लिप्तम्, साधोः शरीरं वर्णवर्णमभवत् । अनेन विधिना साधु निर्वाधं कृत्वा खगृहं ते षडप्याजग्मुः । रत्नकम्बलं विक्रीय तद् द्रव्यं सप्तक्षेत्रेषु व्ययीचक्रुः। ततस्ते षडपिचारित्रं जगृहुः इति नवमो For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy