SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥१९६॥ कल्पद्रुम कलिका वृतियुक्तं. व्याख्या. इति निश्चयं चक्रेतदाचचक्रिणाखपुत्र्याःप्रतिज्ञापूरणार्थ स्वयंवरमण्डपमहोत्सवः प्रारब्धः। श्रीमत्या चखप्रागभवे देवभवे यत्र क्रीडाशैले नन्दनवन-भद्रशालवनादिषु प्रच्छन्ना खभा ललिताङ्गेन समं क्रीडाः कृतास्ताः सर्वाश्चित्रपट्टे चित्रकारपाचे सर्व लिखित्वा स्थापितमभूत् । यदा स्वयंवरे सर्वे भूपालाः आगतास्तदा श्रीमती भूपालान् प्राग्भवस्वरूपं पप्रच्छ । भूपालान् सर्वानपि स्वार्थवशाद् वृथा यथा तथा प्रलापिनो ज्ञात्वा तान् तत्याज, तत्र च वज्रजङ्घकुमारः परिणीतः, अनुक्रमेण वज्रजङ्घ-श्रीमत्यौ सुखं भुञ्जाते स्म । एकदा वनजङ्घः प्राप्तराज्यः प्रजालोकं पालयन् ग्रहावासे तिष्ठन् , सन्ध्यासमये सन्ध्यावरूपं दृष्ट्वा वैराग्यं प्राप्य मनसि निश्चयं चकार-प्रभाते पुत्राय राज्यं दत्त्वा दीक्षां गृहीष्यामि, रात्रौ श्रीमत्या सह प्रसुप्तस्य वज्रजङ्घस्य तस्य पुत्रेण विषधूम्रप्रयोगेण वधः कृतः, ।ततः तौ मृत्वोत्तरकुरुक्षेत्रे युगलिकत्वेन समुत्पन्नौ । अयं सप्तमो भवः । ततश्युत्वा सौधर्मदेवलोके अष्टमे भवे द्वावपि मित्रत्वेन देवी जातौ । अयमष्टमो भवः । ततश्युत्वा महाविदेहे सुविधिवैद्यः, तत्पुत्रो जीवानन्दनामा वभूव, तस्य च राज्ञः पुत्रः १ मत्रिपुत्रः २ श्रेष्टिपुत्रः ३ सार्थवाहजः ४ एते चत्वारः, पञ्चमः श्रीमतीजीवश्च तत्रैव एकस्य श्रेष्ठिनः पुत्रः केशवनामा५, एते पश्चापि जीवानन्दस्य वैद्यस्य मित्रत्वेन मिलिताः, षडपि स्नेहेन तिष्ठन्ति, घटिकामात्रमपि पृथग न तिष्ठन्ति, एकदा ते सर्वेऽपि वैद्यमित्रगृहे मिलित्वा स्थिताः सन्ति, तदैव एकः कश्चित् कुष्ठीसाधुराहाराय आगतः,तं दृष्ट्वा ते पश्चापि वैद्यमित्रं निनिन्दुः-वैद्यो हि निर्दयो ॥१९६॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy