SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काष्ठभारं लात्वा नगरम् आगच्छन्त्या मार्गे युगंधरनामा केवली वन्दितः, धर्म श्रुत्वा पुनः पप्रच्छ-स्वामिन् ! मम भर्तृप्रमुखं किमपि सुखं नास्ति तत् किं कारणम् ? तदा केवलिनोक्तम्-भद्रे ! सौख्यं धर्म विना न स्यात्, यदि त्वं सुखाभिलाषिणी वर्तसे तदा धर्म कुरु, सा च केवलिवचः श्रुत्वा श्रावकधर्म चकार । पर्वदिवसे पौषधं नमस्कारगुणनं देवगुर्वोवन्दनं धर्मश्रवणं विदधतीं तां दृष्ट्वा लोके धर्मिणी इति नाम प्राप । अथ च सर्वे साधर्मिकास्तस्याः साहाय्यं चक्रुः।सा च धर्मप्रसादाद् इह लोके तु सुखिनी आसीत् , अथ च सा बहुभिस्तपोभिः क्षीणश-| रीरा, यस्मिन् अवसरे खयंप्रभा च्युता तस्मिन्नेव अवसरे सा धर्मिणी अनशनं गृहीत्वा स्थिता । ललिताङ्गस्य रूपं लात्वा सुवुद्धिमश्रिदेवजीवेन तत्रागत्य धर्मिण्यै दर्शयित्वा निदानं कारितम्, सा च मृत्वा स्वयंप्रभा जाता, तया सह ललिताको बहुकालं सुखम् अभुनक। ततो ललिताङ्गयुत्वा षष्ठे भवे पूर्वमहाविदेहे लोहार्गलनगरे सुवर्णजो राजा, लक्ष्मीवती राज्ञी, तयोः पुत्रो वज्रजङ्घः इति षष्टो भवः। स्वयंप्रभा च वज्रसेनचक्रवर्तिपुत्री श्रीमती नाना सञाता, साच एकदा तीर्थंकरसभायां देवान् , देवाङ्गनाश्च दृष्ट्वा जाति सस्मार । निर्नामिकाभवात् वयंप्रभाभवे ललिताङ्गम् , खपतिं च सस्मार।चक्रवर्तिना पृष्टा सती सर्व प्रागभवम् उवाच । चक्रिणा च श्रीमत्याः प्रागभवपतिललिताङ्गक समुत्पन्नः इति केवलिनं पृष्ट्वा वज्रजङ्घज्ञात्वा परिणायिता । केचिद् इति वदन्ति-श्रीमती चक्रिणा पृष्टा सती खप्रागभवं देवलोकसत्कं खयंप्रभाललिताङ्गादिवरूपम् उक्त्वा, चेत् पूर्वभवपतिं लभे तदा तमेव परिणयामि For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy