SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥१९५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं क्रियते ? अद्य यावदहं विषयेष्वेव समतिष्ठम्, अथ च आयुस्तोकमेव, एकमासमध्ये किं भवति ? तदा मन्त्रिणोक्तम् एकमासमध्ये तु प्रचुरमेव धर्मोपार्जनं भवति । एकदिवसेऽपि सम्यक पालितः साधुधर्मो मोक्षदायको भवति, यदि मोक्षं न प्राप्नुयात् तदाऽपि वैमानिकदेवस्तु अवश्यमेव भवति; इति मन्त्रिवचः श्रुत्वा पुत्रं राज्ये | संस्थाप्य दीक्षां लावा अनशनं कृत्वा पञ्चमे भवे ईशानदेवलोके महाबलजीवो देवो बभूव । इति पञ्चमो भवः । तत्र स्वयंप्रभविमाने ललिताङ्ग इति नाम आसीत् । इन्द्रसामानिकपदं भुङ्क्ते, स्वयंप्रभा तत्र देवी अत्यन्तवल्लभा, तया सह ललिताङ्गदेवो विषयसुखं विललास । सा च कियति काले च्युता तदा ललिताङ्गदेवेन महद्दुःखं कृतम्, यदा मनुष्यस्य तादृग दुःखं स्यात् तदा हृदयं स्फुटित्वा म्रियते । तस्मिन् समये पूर्वभवमन्त्री सुबुद्धिजीवो धर्ममाराध्य मृत्वा तत्रैव देवलोके देवो जातोऽस्ति, तेन ललिताङ्गस्य स्वयंप्रभायाः विरहदुःखं दृष्ट्वा ललिताङ्गाय प्रोक्तम्-भो ललिताङ्ग ! त्वं दुःखं मा कुरु यथा स्वयंप्रभा तव मिलिष्यति तथा करिष्यामि । अस्मिन् अवसरे नन्दनाम्नि ग्रामे एको नागिलनामा दरिद्रो वसति, तस्य नागश्रीभार्या, तया एकनालेन षट् पुत्र्यः प्रसूताः । एकं गृहे दारिद्र्यम्, अपरं पुत्र्याः प्रभृतिर्बह्वी, तदा महादुःखं तस्याश्च पुनरपि दैवयोगात् सप्तमी अपि पुत्री बभूव । तदा च दुःख- क्रोधवशात्तस्याः अभिधानमपि न दत्तम्, लोके निर्नामिका इति तस्याः प्रसिद्धिरभूत्। सा च अत्यन्तं दुर्भगा, कोऽपि न वाञ्छति । काष्ठभारं वनादानीय विक्रीय उदरं बिभर्ति एवं दुःखेन निर्वहति, एकदा तया For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ७ ॥ १९५॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy