________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थवाहसार्थो वसन्तपुरे गतः, धर्मघोषसूरयोऽपि तीर्थयात्रायै सार्थवाहं धर्मलाभं दत्त्वा जग्मुः । ततो धनसार्थवाहश्चिरं सम्यक्त्वं प्रपाल्य अन्त्यावस्थायां मनुष्यायुषमुपायं श्युत्वा द्वितीये भवे उत्तरकुरुक्षेत्रे युगलिकोऽभूत् । तत्र पल्यत्रयस्य आयुः प्रपाल्य युगलिकभवसुखानि भुक्त्वा आयुःक्षये श्युत्वा तृतीये भवे सौधमदेवलोके देवत्वं प्राप्तः । ततश्युक्त्वा पश्चिममहाविदेहे क्षेत्रे गन्धिलावतीविजये शतवलो नाम भूपः, चन्द्रकान्ता राज्ञी, तयोः पुत्रो महाबलनामाऽभूत्, इति चतुथों भवः । तत्र संप्राप्तयौवनो महाविषयी सदा स्त्रीसमूहेन परिवृतः गीत-गान-नृत्यादिशृङ्गाररसलुब्धो महाबलः तिष्ठति । उदयास्तमपि न जानाति, धर्मे कदाऽपि मतिं न करोति । एकदा प्रस्तावे नाटकं भवति, मधुरखरेण गीत-गानं च जायते, महाबलो नृपतिरेकाग्रचित्तस्तिष्ठति । तदा तस्य मन्त्री सुबुद्धिः तत्प्रबोधार्थ गाथां प्राह:
सवं विलवियं गीयं, सवं नर्से विडवणा । सवे आभरणा भारा, सव्वे कामा दुहावहा ॥१॥ अर्थ:-सर्वगीतं विलपितं विलापसदृशम् , सर्व नृत्यं विटम्बनासदृशं भूतग्रस्तचेष्टासदृशम् इत्यर्थः, सर्वाणि आभरणानि भारसहशानि, सर्वाणि कामसुखानि दुःखदायकानि दुःखरूपाणीत्यर्थः, इति गाथां श्रुत्वा महाबलो मत्रिणं प्राह-भोः सुबुद्धे ! अप्रस्तावे किमिदमुक्तम् , तदा मन्त्रिणोक्तम्-हे राजन् ! केवलिना ममाऽग्रे इत्युक्तम्महाबलभूपस्य एकमासम् आयुरस्ति, तेन मया इयं गाथा उक्ता । इति श्रुत्वा राजा भीतो मत्रिणं पप्रच्छ-अथ
For Private and Personal Use Only