________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्या गाथायाः अर्थः-प्रथमे भवे धनसार्थवाहोऽभूत्, तदा सम्यक्त्वं प्राप्तं तदुच्यते-इहैव जम्बूद्वीपे पश्चिममहाविदेहक्षेत्रे सुप्रतिष्ठितनाम्नि नगरे प्रियंकरो नाम राजा । तस्मिन् नगरे एको धननामा महान् सार्थवाहो वसति, सेन एकदा वसन्तपुरे गमनाय सार्थो मेलितः, नगरे उद्घोषणा दापिता-यः कश्चिद् वसन्तपुरे गन्तुं वाञ्छेत् स चाऽस्माकं सार्थे समायातु, तस्य वयं सर्व निर्वाहं करिष्यामः, इति श्रुत्वा बहवो लोकाः सार्थे मिलिताः, अतीव महान् सार्थोऽभूत् । तत्र च श्रीधर्मघोषसूरयः पश्चशतसाधुवर्गसहिताः यात्रानिमित्तं बसन्तपुरे गन्तुं मनसो बभूवुः, तदा धर्मघोषा अपि धनसार्थवाहस्य समीपे आगत्य धर्मलाभं दत्त्वा अनुमति मार्गयामासुः। हे सार्थेश! चेद् भवदाज्ञा भवेत् तर्हि भवतां सार्थन समं वयमपि वसन्तपुर समागच्छामः। धनः श्रुत्वा धर्मघोषमरीन उवाच-आगम्यतां स्वामिन् ! मम सार्थे सुखेन, तद्वचनं श्रुत्वा धर्मघोषा अपि सार्थे प्रचेलुः, ततः सर्वोऽपि सार्थश्चचाल । मागें सार्थस्य बहुलत्वात् स्तोकं स्तोकम् एव चङ्कमणं बभूव, अन्तरा अटव्यां वर्षाकालः समाजगाम, तदा पूर्वदिकसत्काः वायवो वयुः, मेघाः आकाशे जगर्जुः, विद्युतः स्फुरन्ति स्म, नद्यः पर्वतेभ्यः उत्तीर्य मार्ग रुरुन्धुः, हरिताङ्कुरैः सर्व भूतलं निरुद्धम् , इन्द्रगोपैर्भूतलं भूषितम् , दर्दुराः अव्यक्तं शब्दं चक्रुः, मयूरा नृत्यन्ति स्म, मार्गाः पङ्काकुला जाताः, तदा सर्वोऽपि सार्थः पदमेकमपि चलितुं न शक्नोति । तदा सार्थेशेन खसार्थ संमील्य एकत्र तस्थे, पट्टगृहाणि लोकः विस्तारितानि, तदा धर्मघोषा अपि एकस्यां
For Private and Personal Use Only