SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥१८॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. पञ्चाशत्तमं दिनं वर्तते, तदा वर्षाकालस्य तृतीये मासे पञ्चमे पक्षे एतावता आश्विनकृष्णमासस्य अमावास्यायां| पश्चात्पहरे रेवताचलस्य उपरि वेतसवृक्षस्य अधोभागे अष्टमभक्तेन चतुर्विधाहारत्यागसहितेन चित्रानक्षत्रे चन्द्रसंयोगे प्राप्ते सति स्वामिनः शुक्लध्यानं ध्यायतः केवलज्ञानं उत्पन्नम् । तदा भगवान् सर्व जानन् सर्व पश्यन् विहरति, तदा च सहस्राम्रवनवनपालकेन द्वारिकायां आगत्य कृष्णस्य व पनिका दत्ता, तदा द्वाद|शकोटिरूप्यस्य स्वर्णस्य च व पनिका वनपालाय प्रदत्ता, श्रीकृष्णदेवो वन्दनाय गिरिनारपर्वते आगतः। तत्र चतुर्विधदेवनिकायो मिलितः, समवसरणं रचितं, भगवान् सिंहासने स्थितो देशनां ददाति स्म, तदा राजी-1 मत्यपि समवसरणे समेताऽस्ति । तस्मिन् अवसरे राजीमत्याः लेहकारणं भगवतो नेमिनाथस्य श्रीकृष्णेन पृष्टम् तदा भगवता सम्यक्त्वप्राप्तेरारभ्य अष्टभवानां संबन्धः प्रोक्तः । नवमो भवो वर्तमानः। प्रथमे भवेधनो धनवती च, द्वितीये भवे सौधर्म देवलोके देवो देवी च, तृतीये भवे चित्रगतिविद्याधरो रत्नवती विद्याधरी, चतुर्थे भवे माहेन्द्रदेवलोके मित्ररूपौ देवी, पञ्चमे भवे अपराजितो राजा प्रियमती राज्ञी, षष्ठे भवे एकादशमे आरणदेवलोके मित्ररूपा देवी, सप्तमे भवे शंखो राजा यशोमती राज्ञी, अष्टमे भवे अपराजिते मित्ररूपौ देवी, नवमे भवे अहं नेमिः सञ्जातः, एषा राजीमती संजाता। अग्रे लेहबन्धनं त्रुटितम् । इत्थं भवावली श्रुत्वा राजीमती दीक्षा जग्राह । दीक्षां गृहीत्वा च रथनेमिर्वान्ताहारग्रहणदृष्टान्तेन धर्ममार्गे स्थिरीकृतः। ॥१८४॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy