________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकमिन् समये मेघवृष्टिवशात् आर्द्रवस्त्राणां शुष्कीकरणाय निरिनारिगुफायां प्रविष्टया राजीमत्या रथनेमिः प्रतियोधितः । पूर्व निर्वस्त्रां राजीमती दृष्ट्वा रथनेमिना प्रोक्तम्
एहिता भुजिमो भोए, माणुस्सं खलु दुल्लहं । भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्सामो ॥१॥ | अर्थः-रथनेमिः राजीमती साध्वीं एवमवादीत्-हे सुन्दरि! आगच्छ आवां भोगान् भुनावः, भुक्तभोगिनौ च भूत्वा पश्चात् संयम ग्रहीष्यावः, इति रथनेमेर्वचः श्रुत्वा राजीमती स्वाङ्गोपाङ्गं बाहुभ्यां संगोप्य उपदेशं ददौ । हे देवानुप्रिय ! त्वं अन्धकवृष्णिकुले उत्पन्नः, अहं भोजकवृष्णिकुले उत्पन्ना। आवां अगन्धनकुले उत्पन्नसर्पसदृशौ भवावः । यथा-अगन्धकुलोत्पन्नसर्पस्य अग्निप्रवेश एव करणीयः भवति, न तु विषस्य
पश्चाद् ग्रहणं करणीयं भवति, तथा तव मरणं एव श्रेयः, न पुनः शीलखण्डनं श्रेयः, यदि रूपवती कामिनी IN दृष्ट्वा कामुको भविष्यसि, तदा वायुना विधूतशेवाल इव अस्थिरात्मा भविष्यसि । एतादृशीं धर्मदेशनां दत्त्वा .
अङ्कुशेन गज इव वशीकृत्य संयममार्गे आनीतः, एतादृशी राजीमती महासती । अथ रथनेमिसाधुः ४०० चत्वारि शतवर्षाणि गृहवासे स्थितः, एकवर्ष छद्मस्थदशायां स्थितः, पञ्चशतवर्षाणि केवलपर्याये स्थितः, एवं सर्वायुर्नवशतएकोत्तरवर्षाणि प्रपाल्य नेमेः सकाशात् पूर्वं चतुःपञ्चाशदिनानां अन्तरालेन मुक्तिं गतः । अथ नेमिप्रभोः परिवारं वदति
For Private and Personal Use Only