________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
F
कल्पसूत्रं
कल्पद्रुम कलिका वृतियुक्त व्याख्या.
॥१८२॥
आज्ञाभमा कार्षीः, तदा नेमिरवादीत्-हे मातः ! एषः कदाग्रहो न कर्तव्यः, भवतां दृढनेमि-सत्यनेमिप्रमु- खाः अन्ये पुत्राः सन्ति, ते मनोरथं पूरयिष्यन्ति, एषा स्त्री मलमूत्रयोर्भस्त्रिका मह्यं न रोचते, मुक्तिकान्तायां मे मनो लग्नमस्ति, तस्मात् अत्रार्थे किमपि न वक्तव्यं, इमां वार्ता श्रुत्वा, राजीमती क्षणं निःश्वस्य एवं वदति
हा! यादवकुलदिणयर ! हा निरुवमनाह ! हा जगस्सरण ! |
हा ! करुणायरसामी ! मुत्तूणमहं कहं चलिओ ? ॥१॥ अर्थ:-अहो यादवकुले सूर्य !, अहो निरुपमनाथ !, अहो जगत्शरण! अहो दयानिधानवामिन् ! मां मुक्त्वा कथं चलितोऽस्ति, पुनर्नि:श्वासं मुक्त्वा राजीमती वदति
हा हियय ! धिट्ठ निद्र, निल्लज्ज ! अज वि जीवियं वहसि । अन्नत्थ बद्धराओ जाओनाहो अप्पणो नाहो ॥१॥
अर्थ:-हा इति दुःखार्थे वचनं, खकीयहृदयाय उपालम्भं ददाति, अरे धृष्ट, अरे निष्ठुर, अरे निर्लज्ज, मम हृदय ! अद्यापि त्वं जीवसि, यदुनाथः, श्रीनेमिनाथः, आत्मीयस्वामी, अन्यत्र बद्धरागो जातः, पुनर्विलप्य बदति, हे धूर्त ! यदि त्वं मुक्तिगणिकायां अनेकसिद्धैर्भुक्तायां रक्तोऽसि तदा किमर्थं मम पाणिग्रहणार्थ समागतोऽभूः ?॥
" किमर्थ विवाहेन विगोपिता । अस्मिन् समये राजीमती प्रति सख्यः प्राहु:-हे राजीमति ! अनेन भव्यं कृतं
॥१८॥
For Private and Personal Use Only