________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
www.kobatirth.org
कल्पसूत्र
॥१८॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
प्रासादे गवाक्षस्थाऽनेकस्फारशृङ्गारभारेण विराजमाना मेघघटाया विद्युदिव राजीमती भवत्सम्मुखं विलोकयन्ती दृश्यते । अस्मिन् अबसरे सहजसौन्दर्येण भासमानो भूषणश्चाधिकं विराजमानःश्रीनेमिकमार आयाति। तं राजीमती दृष्टा चिन्तयति, किमयं इन्द्रः, किं वा चन्द्रः, किंवा पातालवासी नागकुमारोऽस्ति, अथवा मया ज्ञातोऽयं मदीयप्रागभवसत्को भाऽस्ति, अथवा मदीयं मूर्तिमत् पुण्यं वर्तते, अस्मिन्नवसरे तोरणवन्दनाय आयाति, श्वश्रूः विवाहमङ्गलाचरणकरणाय द्वारदेशे स्थिताऽस्ति, तत्समये नेमिकुमारः पशुजीवानां पूत्कृति श्रुत्वा सारथिं पप्रच्छ-एते जीवाः किमर्थं संमीलिताः सन्ति ? तदा सारथिः प्राह-खामिन् ! तव विवाहे एतेषां आमिषेण भोजनं भविता, तदा श्रीनेमिस्तेषां पूत्कृतिं श्रुत्वा मनसि चिन्तयति, अहह !!! श्रवणकटुकोऽयं शब्दः श्रोतुं अशक्यः, तेन उत्सवेन अलम् , येन उत्सवेन कृत्वा अन्ये निरपराधिनो हन्यन्ते,तं उत्सवं विवाह धिक् ! अस्मिन्नवसरे राजीमती सखीभ्यः प्राह-हे सख्यः! कथं मदीयं दक्षिणं चक्षुः स्फुरति, किञ्चिद् अमङ्गलं भविष्यति । तदा सख्यः प्रोचुः-हे भगिनि ! इदानीं मङ्गलावसरे एतादृशं अमङ्गलं वाक्यं मा ब्रूहि । तावत् नेमिस्वामी सारथिनं कथयति स्म-भोः सारथिन् ! रथं पश्चाद् वालय । अस्मिन् अवसरे एको हरिणः नेमिसम्मुखं दृष्ट्वा रुदनं कुर्वन् स्वकीयग्रीवया हरिण्या ग्रीवां विधाय इमां गाथां प्राह
मा पहरसु मा पहरसु एयं मह हिययहारिणि हरिणि ।सामी! अव मरणा विहु दुस्सहो पियतमाविरहो ॥१॥
दः श्रोतुं अशक्या, ता, तदा श्रीनेमिस्तेषां पूल सन्ति ? तदा साराियनेमिकुमारः पशुजीवाणवन्दनाप
॥१८१॥
For Private and Personal Use Only