SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलसेकं, एवं तासां अत्याग्रहेण नेमिना मौनं गृहीतम् । ताभिस्तदा उक्तम्-श्रीनेमिना विवाहो मानितः, मानित इति सर्वाभिः कृष्णो विज्ञप्तः, श्रीनेमिनाथाय विवाहोऽङ्गीकारितः, श्रीकृष्णदेवः स्वयं श्रीउग्रसेनस्य गृहे गत्वा तत्पुत्री नेमिविवाहाय राजीमती याचयामास । क्रौष्टिकनिमित्तिनमाय लग्नं शोधितम् । वर्षाकाले लग्नं न भवति, परं उत्तालवशात् , श्रीकृष्णवाक्यात् श्रावणशुद्धषष्ठीदिनं निर्दोषमस्ति, इति निमित्तिना प्रतिपादितम् । अथ उभयोहे पक्कान्नानि निष्पाद्यन्ते । याचका जयशब्दं जल्पन्ति, गीतानि गायन्ति । अथ लग्नदिवसे श्रीनेमीश्वरस्य अङ्गे पिष्टिका क्रियते, जलेन जवाङ्कराः सिच्यन्ते, नेमिशिरसि मुकुटो बध्यते, पहस्तिशीर्षे नेमिरारोप्यते, अष्टकोटियदुकुमाराः नानाजातीयतुरङ्गमस्कन्धे आरोप्य साथै गृह्यन्ते, श्रीकृष्णदेवो बलभद्रो दश दशार्दाश्च अग्रे प्रचलन्ति, पृष्ठतः शिवादेवी सपरिकरा व्रजति, भगिनी लवणमुत्तारयति, ऋद्धिं विस्तारयति, एवं श्रीनेमिनाथो महताऽऽडम्बरेण उग्रसेनस्य द्वारदेशे आगच्छति । अथ खयं श्रीकृष्णदेवो हांसलेऽश्वे स्थितोऽस्ति, मस्तके छत्रं धारयति श्वेतचामरैव-ज्यमानः, अन्येऽपि यादवाः नानाजातीयेषु अश्वेषु आरूढा नेमिकुमारसाधू यान्ति, श्रीनेमिकुमाराग्रेऽष्टमङ्गलानिरच्यन्ते, सार्धद्विलक्षवाजित्राणां निर्घोषाने कर्णपतितोऽपि शब्दो न श्रूयते, एवं रीत्या आगच्छता श्रीनेमिना उच्चैर्धवलगृहं दृष्ट्वा सारथिः पृष्टः, कस्येदं धवलगृहं ? तदा सारथिना प्रोक्तम्-वामिन् ! तव श्वशुरस्य श्रीउग्रसेनभूपस्य कैलासशिखरवत् विराजते एषः प्रासादः, तत्र For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy