________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ श्रीवासुदेवः सुखेन द्वारिकायां राज्यं करोति, श्रीनेमिकुमारः आबालब्रह्मचारी यौवनवयः प्राप्तस्तदा मात्रा श्रीशिवया देव्या उक्तः-हे वत्स! अस्माकं हर्ष उत्पादय, एककन्यां परिणीय मत्पादयोर्वधूं नामय, तदा श्रीनेमिकुमार उवाच-हे मातः । यदाऽहं मद्योग्यां कन्यां बिलोकयिष्यामि तदा परिणेष्यामि, एवमुक्त्वा मातरं हर्षयति, अस्मिन्नवसरे कृष्णस्यायुधशालायां नेमिकुमारः पाञ्चजन्यं शंखं पूरयामास । तस्य शब्देन हस्तिनो निर्मदा बभूवुः, शृङ्खला बोटयित्वा भ्रमुः । चक्रं भ्रामितं, शार्ङ्ग धनुरारोपितं, टङ्कारं चकार, सर्वे लोकाः भीताः शशब्दं धनुष्टङ्कारं श्रुत्वा, नादेन विश्वं बधिरं जातं, धरा धडहडिता, नगरीच प्रचकम्पे, पर्वताः सचेलुः, समुद्रा उच्छलिताः, दिग्गजाः त्रासं प्रापुः, यादवा मूर्च्छिता इच जाताः, ब्रह्माण्डं भयविह्वलं जातं,
कृष्णश्चेतसि चकम्पे । किं नवीनो वासुदेवोऽवतीर्णः, यदा नेमिकुमार एतादृशो बलवान् तदा राज्याNऽधिपोऽयं भविता, तदा बलभद्र उवाच-हे भ्रातः मा भयं कुरु, एकामपि भार्या न परिणयति, एतादृशो |
वीतरागः किमर्थं तव राज्यं गृह्णाति, तदा आकाशवाण्यपि बभूवःA यो राज्यं न समीहते गजघटाटङ्कारसंराजितं, नैवाकाङ्क्षति चारुचन्द्रवदनां लीलावतीं योऽङ्गनाम् ।
यः संसारमहासमुद्रमथने भावी च मन्थाचलः, सोऽयं नेमिजिनेश्वरो विजयते योगीन्द्रचूडामणिः ॥१॥ अयं श्रीनेमिकुमारः खकीयाऽवसरे दीक्षा लास्यति, तदा कृष्णो हर्षितः। तदा नेमिनाथोऽपि तत्राऽऽजगाम,
For Private and Personal Use Only