________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
www.kobatirth.org
कल्पसूत्र
॥१७९||
इति शुद्धिः श्रुता, तदा जरासन्धः कटकं लात्वा युद्धाय चलितः। अस्मिन् प्रस्तावे नारदऋषि; जरासन्धसेनां कृष्णस्योपरि
| कल्पद्रुम
कलिका वजन्ती ज्ञात्वा द्वारिकायां तावद् गत्वा कृष्णाय शुद्धिं ददौ । कृष्णोऽपि सैन्यं संमील्य पाटलापश्चासराग्रामं यावत् , उभयोः
वृत्तियुक्त कृष्ण-जरासन्धयोः कटकं एकयोजनांतराले स्थितं । परस्परं युद्धं लग्नं, लक्षशो मनुष्या मृताः, ततो युद्धे कृष्णं अजेयं व्याख्या. मत्वा जरासन्धभूपेन जरा विद्या मुक्ता, तया कृष्णस्य सैन्यं रुधिरं वमत् भूमौ पपात । ततःश्रीनेमिनाथवचनेन श्रीकृष्णेन उपवासत्रयं कृत्वा पद्मावती आराधिता । तया प्रत्यक्षीभूय धरणेन्द्रस्य देवालयात्, भावितीर्थंकरस्य श्रीपार्श्वनाथस्य प्रतिमा आनीय दत्ता । तदा मङ्गलनिमित्तहृष्टेन कृष्णेन शङ्खो वादितः तत्रैव स्थाने बिम्बं स्थापितम् । शङ्खपूरणात् शङ्केश्वरा इति तीर्थ जातम् । पुनः श्रीनेमिनाथेन इन्द्रेण मातलिसारथिना समं मुक्तो यो रथः तमारुह्य शङ्खनादः कृतस्तेन जरासन्धसैन्यं निष्पयासं जातम् । ततो दिनत्रयं श्रीशङ्केश्वरपार्श्वनाथप्रतिमास्नात्रोदकेन श्रीकृष्णस्य सैन्यं । सज जातम् । पुनर्जरासन्धेन कृष्णाय स्वकीयं चक्रं मुक्तम् । परं न प्रभवितं ततस्तदेव चक्रं गृहीत्वा कृष्णेन मुक्तम् । | तेन जरासन्धमस्तकं च्छिन्नं, मृतो जरासन्धः । देवैः कृष्णस्य उपरि पुष्पवृष्टिं कृत्वा उच्चैः प्रोक्तम् । भो भोः श्रीकृष्णो N ॥१७९॥ नवमो वासुदेवो जातः। अथ एनमेव सर्वेऽप्याश्रयध्वम् । ततः सर्वमपि जरासन्धसैन्यं श्रीकृणस्य मिलितम् । अथ श्रीकृष्णवासुदेवो द्वारिकामागत्य त्रिखण्डराज्यं भुजानस्तिष्ठति ॥
For Private and Personal Use Only