SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir स्तेनाऽहं अपि प्रविशामीत्युक्त्वा स्थविराऽपि ज्वलने प्रविवेश । कालकुमारो देवच्छलात् व्यामोहितः सन् पूर्वस्ववाक्यं स्मरन् प्रतिज्ञावशात् अन्यैरपि बहुभिः सामन्तैः सहितः कतिभिर्भ्रातृभिरपि सहितः खङ्गं निष्कास्य, अग्नौ प्रविष्टः, स च भस्मीबभूव । प्रातः सर्वे केचित् शेषाः लोकाः तां देवमायां ज्ञात्वा पश्चात् ययुः । यादवाश्च प्रमुदिताः सन्तः, पश्चिमसमुद्रतटे आगताः, तदा च सत्यभामया भानुभामरनामकं पुत्रयुगलं प्रसूतम् । निमित्तिकवचनात्तत्रैव यादवैः स्थितं, कृष्णेन उपवासत्रयं कृत्वा सुस्थितनामा लवणसमुद्राऽधिप आराधि, स च आगतस्तदा कृष्णः स्वनिवासाय स्थानं ययाचे । तदा सुस्थितोऽवादीत् - इन्द्राज्ञया दास्यामि । इन्द्रं पृष्टवान् तदा इन्द्रेण धनदं प्रेष्य, सुस्थितसमीपात् द्वादशयोजनं यावत् पानीयं संवृतं तत्र धनदेन द्वारिकानानीं पुरीं वासयित्वा अष्टादशहस्तोन्नतेन द्वादशहस्तपृथुलेन नवहस्तपृथिव्यां स्थितेन सौवर्णमयेन रत्नमयकपिशीर्षेण खातिकायुक्तेन देववृक्षवाटिकासहितेन वप्रेण वेष्टितां द्वारिकां साक्षात् धनदपुरीसदृशीं धनददेवो वासवाज्ञया कृष्णाय ददौ । तत्र द्वारिकायां अन्तराले कृष्णस्य गृहं सप्तभूमिकं कल्पवृक्षवाटिकायुक्तं तस्य पार्श्वे समुद्रविजयादीनां दशानां गृहाणि, अपरस्मिन् पार्श्वे उग्रसेनस्य गृहं तस्य पार्श्वे बन्धूनां गृहाणि त्रिभूमिकानि सर्वाणि गृहाणि त्रिदिशं यावद् धनधान्यवस्त्रालङ्कारैर्भृत्वा समर्प्य धनदः स्वस्थाने ययौ । तत्र यादवाः सर्वे वसन्ति । ५० वर्षाणां मध्ये अष्टादशकुलकोटीनां ५६ षट्पञ्चाशतकुलकोटी जाता, यादवानां तत्र तिष्ठतां एतादृशी वृद्धिर्बभूव । अत्रान्तरे व्यवहारिणां गमनागमनात् राजगृहे जरासन्धस्य 'यादवाः द्वारिकायां सुखिनः तिष्ठन्ति' For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy