SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥१७८॥ कृत्वा, तदा कालोऽहं त्वदीयः पुत्रः यदि गोपालाः यादवा यत्र यान्ति, तत्र गत्वा तान् हन्मि, यद्याकाशे यान्ति तदा कल्पद्रुम निःसरणी स्थापयामि, यदि भूमौ प्रविशन्ति तदा खनित्वा हन्मि, पानीयमध्ये प्रविशन्ति तदाऽगस्तीभूय शोषयामि,N कलिका अथवा जालं मुक्त्वा बन्धयामि, यद्यग्नौ प्रविशन्ति तदाऽहमपि अग्नौ झम्पां दत्वा प्रविश्य तान् हन्मि, इति प्रतिज्ञा वृत्तियुक्तं व्याख्या कृत्वा पञ्चशतभ्रातृभिः सहितः कालकुमारः शस्त्राणि धृत्वा पितुः पादयोगित्वा स्वभगिनीं प्रति उवाच-हे भगिनि ! यदि यादवानां क्षयं कृत्वा भगिनीपतेः वैरं लात्वा आयामि, तदाऽहं तव बन्धुः इत्युक्त्वा यावद् व्रजति तावद्भगिनी | आशीर्वादं ददौ त्वया मर्तव्यं परं यादवानां क्षयः कर्तव्यः, प्रायः यादृशं भाव्यं भवति तादृशं एवं वचः निस्सरति । अथ कालकुमारः सेनां लात्वा स्वबन्धुभिः सहितः अच्छिन्नप्रयाणैर्यादवानां पृष्ठे चलितः, यादवाश्च शनैः शनैः ब्रजन्ति, कालकुमारस्य यादवानां च यावत् एकप्रयाणस्यान्तरं स्थितम् । अथ च यादवानां कुले एते उत्तमपुरुषाः सन्ति, श्रीनेमिस्तीर्थङ्करः, कृष्णो वासुदेवः, रामो बलदेवः, अन्येऽपि बहवस्तद्भवसिद्धास्तेषां पुण्याकर्षिता कुलदेवी समागता, IN समागत्य तयोः कालकुमारसैन्ययादवयोरन्तराले पर्वतं रचयामास । तस्य पर्वतस्य पट्टिकाऽन्तराले अग्निचिता दृश्यते, अग्निचितायाः पार्थे स्थविरारूपेण रुरोद, तावत्तत्र कालकुमारः आगत्य स्थविरां पप्रच्छ-हे स्थविरे! का इयं NR चिता के चात्र ज्वलन्तो दृश्यन्ते तदा यादवानां कुलदेवी कालकुमारं छलयितुं रुदती, उवाच-हे वत्स ! कालकुमारभयात् यादवाः सकुटुम्बाः सर्वेऽप्यत्र चितायां प्रज्वलिताः, एकोऽपि न उद्धरितः, मम कोऽपि सेवां कर्तुं न स्थित For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy