SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षयो न विधेयः, तो जरासन्धभूपतेरपराधिनौ स्तः, यदा च तो भवत्पुत्रौ तथाऽपि जरासन्धनृपतये दातव्यौ इति श्रुत्वा समुद्रविजयोऽवादीत्, भोः सोमाख्य ! एतादृशौ गुणवन्तौ बलवन्तौ पुत्रौ हननाय दत्त्वा वयं वृद्धाः कियत्कालं जीविष्यामः, यद्भाव्यं तद्भविष्यति । तदा च राम-कृष्णौ ऊचतुः-भोः सोमाख्य ! त्वं पितुः सकाशात् पुत्रौ मार्गयन् न लज्जसे ?। अथ च मया तु षण्णां वाणां वैरमध्ये एकस्य भ्रातुर्वैरेण कंसो हतोऽस्ति, पञ्चानां तु भ्रातॄणां वैरं तिष्ठत्येव, त्वं चेत्स्वस्य भव्यं वाञ्छति तदा ब्रज, नो चेत् फलं दर्शयिष्यामि, यदा सोमाख्यः सामन्तः कृष्णेन भापितस्तदा स गतः, यादवाः मनसि शङ्किताः क्रोष्टिकनैमित्तिकं पप्रच्छु:-भो निमित्तिन् ! अस्माकं कस्या दिशः सकाशात् जयोऽस्ति, तां दिशं दर्शय, तदा नैमित्तिको निमित्तं दृष्ट्वाऽवदत्-भो यादवा! भवतां कुले एतौ राम-कृष्णौ महापुरुषौ स्तः, कृष्णस्य प्रभुत्वं ददत, अथ च यूयं पश्चिमायां बजत यत्र समुद्रतटे सत्यभामा द्वौ पुत्रौ युगलतया जनयिष्यति तत्रैव स्थातव्यं तत्र भवतां वृद्धिः भवित्री, अत्र न स्थातव्यं, एवं श्रुत्वा यादवाः शौर्यपुरात् ११कुलकोटिप्रमाणाः श्रीसमुद्रविजयप्रभृतयो निस्सृताः मथुरानगरीतः सप्तकुलकोटिप्रमाणाः यादवा उग्रसेनप्रमुखाः निस्सृताः, एवं सर्वे १८ कुलकोटिप्रमाणाः यादवा एकत्र मिलित्वा सौराष्ट्रदेश प्रति सकुटुम्बाः प्रचलिताः, अथ सोमाख्योऽपि नृपः सर्व स्वरूपं जरासन्धनृपतये उक्तवान् , जरासन्धोऽपि यात्राभेरी दापयित्वा यादवानामुपरि यदा चलति तावत्कालकुमाराः सहदेवजवनप्रमुखाः पुत्राः जरासन्धं निवार्य पितुरग्रे एतादृशं पणं For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy