SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष्यति, चाणूरमलं मौष्टिकमलं मलानां अक्षवाटे हनिष्यति, नगरप्रतोलीद्वारे चम्पोत्तर- पद्मोत्तरगजी हनिष्यति, स एव तव हन्ता ज्ञेयः । एतैरभिज्ञानैः त्वया स्वकीय शत्रुरुपलक्ष्यः । एवं निमित्तिकवचनं श्रुत्वा निमित्तिकं विसये कंसस्तद्दर्शनार्थं उपायं चिन्तयामास । अथ कंसेन उद्घोषणा दत्ता-यः सारङ्गधनुरारोपयति तं अहं सत्यभामां मम भगिनीं पाणिं ग्राहयामि, इति उद्घोषणां श्रुत्वा स्थानस्थानस्थाः भूपाः आयान्ति । तस्मिन् अवसरे एको वसुदेवस्य पुत्रोऽनादृष्टिः बलिष्ठः सोऽपि धनुरारोहणाय आगच्छन् संध्यासमये गोकुले निवासं गृहीतवान् । तदा बलभद्रेण उपलक्ष्य वही सेवा कृता, प्रातः समये बलभद्रं अनादृष्टिरवादीत् अस्माकं एकः कश्चिन्मार्गदर्शको देयः, यो गोकुलस्य मार्गे मथुरा दर्शयित्वा पश्चादायाति, इत्युक्ते सति अनादृष्टिसार्थे कृष्णो मार्गदर्शनाय बलभद्रेण प्रेषितः, कृष्णोऽपि बलभद्रस्य वचनं प्रमाणीकृत्य, अनादृष्टिं प्रेषयितुं चलितः । मार्गे गच्छतोऽनादृष्टे रथो वृक्षान्तरे क्षुभितः, अनादृष्टिं रथं निष्कासयितुमशक्तं दृष्ट्वा कृष्णेन लत्ताप्रहारेण उभयोः पार्श्वयोरुभौ वृक्षौ उन्मूल्य रथश्चालितः, तदा तद्वलं अनादृष्टिः दृष्ट्वा रथं आरोप्य मथुरायां ययौ, तत्र च यदा अनादृष्टिः यावत् सारङ्गधनुरारोहयितुं गृह्णाति, करौ प्रसारयति तावद्देवप्रभावात् पश्चात् पपात । अनादृष्टिं पतन्तं दृष्ट्वा सर्वे हास्यं चक्रुः । कृष्णस्तु अनादृष्टेर्हास्यं दृष्ट्वा धनुर्गृहीत्वा लीलया आरोपयामास, सत्यभामया पार्श्वस्थया दर्शनेन वृतः, तदा च वसुदेवः अनादृष्टेरुपरि क्रोधं चकार । त्वया गोकुलात् | किमर्थं कृष्ण आनीतः ? याहि एनं गोकुले मुञ्च, तदा कृष्णो गोकुले वसुदेवेन अनादृष्टिं प्रच्छन्नं रहस्यं कृष्णस्य रक्षण For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy