________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥१७५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्ट्वा तस्याः एकनासां छित्वा पश्चादर्पिता । शिवशासने इत्युक्तमस्ति – “सा कन्याऽपि शिलायां आस्काल्य हता, सा विद्युद्वभूव इति कृत्वा कंसो निश्चिन्तो बभूव" । वसुदेवोऽपि कृष्णस्य भलामनिकां वहीं नन्दाय ददौ । कृष्णो यशोदया पाल्यमानः सुखेन वर्द्धते । अथ कृष्णस्य विलोकनाय पर्वमिपं कृत्वा पक्षे पक्षे, मासे मासे यशोदागृहे गोपूजनवत्स| द्वादशीगोत्रजादिपर्व मिषेण कृष्णं विलोकयति । उत्सङ्गे स्थापयति, स्तन्यं पाययति, एवं कृष्णं क्रोडयित्वा गृहे आयाति, वसुदेवो देवकीं निवारयति, हे प्रिये ! त्वया गोकुले भूयो भूयो न गन्तव्यं, चेत् कंसो ज्ञास्यति तदा किञ्चित् उत्पातं करिष्यति । अथ कृष्णो यदा सप्ताष्टवार्षिको जातः । तदा कलाभ्यासार्थं रोहिण्याः पुत्रो बलदेवः कंसेन अदृष्टः, कृष्णस्य पार्श्वे रक्षितः, बलदेवाय सर्वं कृष्णस्य गुप्तरक्षणं निवेदितमस्ति । अथ उभौ बलकृष्णौ नन्दगोपगृहे तिष्ठतः । कृष्णं बलो विद्यां पाठयति, कलां शिक्षयति । एवं कृष्णश्चतुर्दशवार्षिको जातः । अथ रामकृष्णौ गोपालैः सार्धं गानं कुरुतः, नृत्यं कुरुतः, नीलपीताम्बरधरौ, कृष्णो मस्तके मयूरपिच्छं धारयति, मोरलीं वादयति, गोपीभिः सह गानं करोति, एवं सर्वस्मिन् वासरे क्रीडां कृत्वा संध्यासमये गृहं आगतः । अत्रान्तरे एकदा कंसेन एकनासा कन्या दृष्टा । मनसि दूनो जातः, एकान्ते एको निमित्ती पृष्टः । भो निमित्तिन् ! साधुवचनं सत्यं वाऽसत्यं वा मद्वैरी कश्चिदस्ति, मृतो वा, तदा नैमित्तिको निमित्तं दृष्ट्वाऽवादीत् तव शत्रुः कुत्रचिद् वर्धते, मृतो नास्ति, यः कालीयनागं वश्यमानेष्यति, केशीनामकं अश्वं दमिष्यति, खरमेषौ हनिष्यति, अरिष्ठनामानं संडं जेष्यति तथा स्वयंवरे सारङ्गं धनुरधिज्यं करि
For Private and Personal Use Only
कल्पद्रुम कलिका
वृतियुक्तंन
व्याख्या
६.
॥१७५॥