SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org साथै हरिणेगमेषिणा अर्पिताः, सुलसायाः षडू मृताः सुताः कंसेन हताः, देवक्या हि प्राग्भवे सपल्याः सप्त रत्नानि चोरितानि आसन्, सपत्नीं रुदतीं दृष्ट्वा एकम् अमूल्यं रत्नं कृपया पुनर्दत्तमासीत् , तेन देवक्याः षट् पुत्राः अन्यत्र वर्द्धिताः, तेषां नामानि-अनीकयशाः१ अनन्तसेनः२ विजितसेनः ३ निहितारिः४ देवयशाः५ शत्रुसेनः ६ अथ सप्तमो गर्भः सप्तभिः स्वप्नैः सूचितः पञ्चमदेवलोकाच्युत्वा देवक्या उदरे उत्पन्नः । कंसस्य सेवकाः गर्भग्रहणार्थ तिष्ठन्ति । देवक्या च वसुदेवाय निवेदितम्-स्वामिन् ! केनचिद् अन्योपायेन अयं उत्तमगर्भो रक्षणीयः अत्राऽर्थे असत्यमपि भाषणीयम् इति देवक्याः वचनं श्रुत्वा, देवक्याः परिणयनसमये नन्दगोपः यशोदा च उभौ दम्पती देवकराज्ञा देवकीजनकेन दायजेन वसुदेवाय दत्तौ स्तः, यशोदाया अपि गर्भो जातोऽस्ति, यस्मिन् समये देवक्याः कृष्णः पुत्रोऽभूत् । श्यामाङ्ग दृष्ट्वा कृष्णकृष्णेत्यभिवादितः, तस्मिन् एव समये यशोदायाः पुत्री अभूत्, कंसस्य सेवकाः कृष्णस्य अङ्गरक्षकैः देवैः निद्रया घूर्णिताः कृताः, तदा कृष्णं लात्वा वसुदेवः प्रच्छन्नतया आद्यमथुरातो निर्गच्छन् प्रतोलीदेशे काष्ठपञ्जरे प्रक्षिप्त उग्रसेनं तं बालं दर्शयित्वा तव काष्ठपञ्जरभञ्जकोऽयं बालो भावीत्युक्त्वा यमुना उल्लङ्घ्य, कृष्णस्य अङ्गरक्षका देवाः सार्थे वर्तन्ते, तैरेव देवैः प्रतोलीकपाटौ उद्घाटितौ, एवं प्रकारेण द्वारान् निर्गत्य तटस्थस्य नन्दगोपस्य गृहे गत्वा यशोदायै समर्पयामास । यशोदायास्तत्कालजनितां पुत्रीं लात्वा गृहे आगत्य देवक्याः पार्थे मुमोच, तावत् प्राहरिका जागरिताः, तैः पृष्टं च देवक्याः किं अपत्यमभूत् तदा वसुदेवेन यशोदायाः पुत्री कंसाय अर्पिता, कंसेन तां कन्या For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy