SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org द्रविजयादीनां पुरतो वसुदेव उक्तवान् । एकोन ७२ सहस्रकन्याः एकत्रीकृत्य विमानं भृत्वा गृहं आगतः, ततो वसुदेवः कंसेन मित्रस्नेहेन मथुरायां आनीतः, तथा देवकनृपस्य पुत्री देवकी वसुदेवाय परिणायितुं समानीताऽस्ति । तत्रैव मथुरायां उभावपि कंस-वसुदेवौ स्नेहेन एकत्र तिष्ठतः, देवकी जीवयशासार्द्ध क्रीडते । जीवयशा तु पितृगण उन्मत्ताऽस्ति, एकदा देवक्या विवाहे जीवयशया मद्यपानं कृतमस्ति, देवकी स्वस्कन्धे आरोप्य नर्त्तति, तस्मिन् समये कंसस्य लघु धाता अतिमुक्तकनामा साधुर्विहरन् कंसगृहं आगतो मदोन्मत्तया जीवयशया दृष्टः, सा धावित्वा साधोः कण्ठे लग्ना सम्यक् कृतं देवर ! अवसरे आगतोऽसि । एकां राजकन्यां त्वां परिणाययिष्यामि, तदा साधुना तस्याः | सकाशात् आत्मानं मोचयितुं तां भापयितुं इत्यूचे-अग्रेतनं साधु असाधु वा किमपि न विचारितम् । अरे मूर्खे ! | किं नर्तसे या त्वया स्कन्धे उत्पाटिताऽस्ति, तस्याः सप्तमो गर्भः तव भर्तुः तव पितुश्च हन्ता भावी, इति साधुवचनं | श्रुत्वा तया अतिमुक्तकसाधुर्मुक्तः । साधुरन्यत्र जगाम । जीवयशा मनसि शङ्किता भीता नान्यथा ऋषिभाषितं इति विचिन्त्य कंसस्याऽग्रे सर्व साधुवचनं एकान्ते प्रोक्तम् । भर्चा कंसेनाऽपि सत्यं मानितं तद्वचनं अलीककरणार्थ स्वजीवितरक्षणार्थं च जलात् पूर्व पालिवन्धनीयेति विमृश्य यावत् इदं रहस्यं कोऽपि न जानाति तावदत्र प्रतीकारः करणीय इति विमृश्य एकदा वसुदेवं सन्तुष्टं दृष्ट्वा एकान्ते कंसं प्रति इति वदन्तम्-हे कंस ! अहं सन्तुष्टोऽस्मि त्वं यद् याचयेस्तत्तुभ्यं ददामि, त्वं मार्गय तदा कंसोऽवादीत्-भो मित्र ! चेत् त्वं तुष्टोऽसि तदा देवक्याः गर्भसप्तकं For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy