________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१७३॥
कल्पद्रुम कलिका वृत्तियुक्त व्याख्या.
नाहीत्वा युद्धात, अथवा परिहार्य माप । तस्य विस्मयं चकापयिष्यति
भूमौ पातिता मूछा प्रापुः । ततस्तेषां सेवकानां भूपाः पश्चात् शस्त्राणि गृहीत्वा गृहीत्वा धाविताः, तदा वसुदेवेन | विद्याबलेन निरायुधाः कृताः केचिन्मुण्डितश्मश्रुकूर्चिकाः, केचित् अर्द्धमुण्डितशिरसः, एवं विरूपा विहिताः, एकाकिना वसुदेवेन सर्वे विखिन्नीकृताः, तस्मिन् प्रस्तावे जरासंधभूपः समुद्रविजयसन्मुखं पश्यति स्म । तदा समुद्रविजयो राजा सन्नाहं परिधाय धनुर्बाणं गृहीत्वा युद्धाय उत्थितः, तदा वसुदेवेन चिन्तितं-अयं समुद्रविजयो राजा | मम बृहद्धाता पितुः स्थाने, अनेन युद्धं कर्तुं न युक्तं, अथ स्वरूपमपि प्रकटयामि बहुकालं प्रच्छन्नः स्थितः। प्रकटीभावेन विना संग्रामोऽपि न स्थास्यति इति विमृश्य कुब्जरूपं परिहार्य मृदङ्गं त्यक्त्वा वसुदेवः स्वाभाविक परमसुन्दरं मौलं रूपं विधाय धनुर्गृहीत्वा एकं स्वनामकं बाणं समुद्रविजयाय चिक्षेप । तस्य बाणस्य मध्ये वसुदेवः प्रणमतीति वर्णाः स्वर्णेन लिखिताः सन्ति, समुद्रविजयो बाणाऽक्षराणि वाचयित्वा मनसि विस्मयं चकार, वसुदेवे मृते सति कियन्ति वर्षाणि ययुः, कुतोऽयं वसुदेवः कश्चिद् इन्द्रजालिकविद्यावान् मा भूत्, मामपि विगोपयिष्यति इति विमृश्य यावत् संशयापन्नोऽभूत् तावद्वसुदेवः समागत्य समुद्रविजयस्य पादयोः पपात। समुद्रविजयोऽपि वसुदेवमुपलक्ष्य हर्षपूर्णहृदयः सञ्जातः, जरासंधप्रमुखाः सर्वे भूपालाः प्रसन्नाः सञ्जाताः, सर्वैरुक्तं धन्या इयं कन्या, कथं अनया वसुदेवो- ऽयं इति उपलक्ष्य परिणीतः, महामहोत्सवेन तत्र वसुदेवेन रोहिणी कन्या परिणीता, आकाशे विद्याधरविद्याधरीणां वृन्दं जयजयशब्दं चकार । यदिनात्प्रभृति गृहान्निर्गत्य यत्र यत्र कन्यानां पाणिग्रहणं कृतं तत्स्वरूपं समु
।
॥१७॥
For Private and Personal Use Only