________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मञ्चानां पतौ यथावृद्धं सर्वे राजानः सिंहासने स्थिताः सन्ति । सर्वे राजकुमाराः स्फारशृङ्गारधराः स्वकीयनामाङ्कितेषु उपविष्टास्तावत् रोहिणीराजकन्या षोडशशृङ्गाराणि शरीरे धृत्वा सखीभिः परिवृता पुष्पमालां गृहीत्वा स्वयंवरमण्डपे प्रविष्टा, तदा सर्वे भूपालाः कन्यायां दत्तदृष्टयो बभूवुः चित्रलिखिता इव आसन् । अथ रोहिणी राजकन्या सती वर्तते । सा च स्वभारं विना अपरस्य राज्ञः सन्मुखं न विलोकयति-यदा पश्यति तदा असती भवति, तदा वरस्य शुद्धिः कथं भवति, प्रतीहारीहस्ते आदर्शोऽस्ति, तन्मध्ये राज्ञां रूपं कुमायें दर्शयति, राज्ञां वंश आचारं गुणं च श्रावयति । जरासंधभूषादारभ्य सर्वेषां भूपानां यादवानां अन्येषामपि नानावंशे समुत्पन्नानां प्रतीहार्या रूपाणि दर्शितानि, वंशाचारगुणकुलानि श्रावितानि, परं कोऽपि राजा कन्यायाश्चित्ते न लगितः, कुलदेव्या वचनं हृदये |संधार्य मृदङ्गवादकरूपेण वसुदेवं कुब्जाङ्गं एह्येहीति शब्दं वादयन्तं दृष्ट्वा तद्गले वरमालां रोहिणी चिक्षेप, तदा कुब्जो ननर्त, अहो! सर्वे भूपाला दौर्भाग्यदूषिताः, अहं सौभाग्यवान् , यतः-सर्वेषु भूपेषु स्थितेषु एव कन्यया अहं वृतः, तदा | सर्वे राजानः रोहिण्यास्तत्स्वरूपं दृष्ट्वा कन्योपरि क्रुद्धाः, केचित् कन्यायाः पितरं निन्दयामासुः, केचित् कन्यां निनिन्दुः, केचित् ऊचुः कन्यांहन्मः, केचित् ऊचुः कन्याया जनक मारयामः, केचिदूचुः कुब्जस्य पार्थात् वरमाला उद्दाल्य ग्रहीतव्या, अयं कुब्जो व्यापाद्यः इति परस्परं प्रोचुः, यस्य सेवकाः कुब्जसमीपाद्वरमालां गृहन्ति, स राजा कन्यां वृणुते, इति श्रुत्वा | राज्ञां सेवका वरमालाग्रहणाय धाविताः, अथ ये ये राज्ञां सेवकाः वरमालापाताय आगतास्ते सर्वे मृदङ्गेनाऽऽहत्य
For Private and Personal Use Only