SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ १७२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठे मरणस्य साहसं प्रारब्धम्, तदा लोकैः प्रधानामात्यैश्च सर्वैः महाग्रहं विधाय सिंहासने स्थापितः, राजाऽपि सशोकः सन् राजकार्य चकार, अथ वसुदेवकुमारो गृहान्निर्गत्य प्राचीननिदानवशात् पुण्यफलविपाकात् यत्र यत्र जगाम तत्र तत्र दिव्यकन्यानां पाणिग्रहणं चकार । एवं विद्याधराणां तथा चतुर्वर्णानां रमणीयकन्यासमुदायं ७२ सहस्रं | द्वाभ्यां ऊनं परणीतवान् । अस्मिन् अवसरे अरिष्टपुरे रोहकराज्ञः पुत्री रोहिणीनाम्नी, तस्याः स्वयम्वरः मिलितोऽस्ति, तत्र अनेके भूपालाः त्रिखण्डमध्यवर्तिनः जरासन्धभूपप्रमुखाः कन्यायाः पित्रा दूतान् सम्प्रेक्ष्य सम्प्रेक्ष्य आहूताः सन्ति । समस्ता यादवाः समुद्रविजय कंसप्रमुखास्तेऽप्यागताः सन्ति, तस्मिन् समये वसुदेवस्य रात्रौ स्वप्ने रोहिण्या प्रज्ञश्या विद्यया च आगत्य निवेदितम् - हे वसुदेव ! याहि रोहिण्याः स्वयंवरे, त्वां रोहिणी परिणेष्यति । एका अपरा कन्या च त्वां परिणेष्यति, एवं अद्यापि कन्याद्वयस्य तव प्राप्तिर्भाविनी । तस्मात् त्वं किं सुप्तोऽसि, प्रभाते त्वया रोहिण्याः स्वयंवरे गन्तव्यं मृदङ्गधारिणो रूपं विधाय मृदङ्गमध्ये एह्येहि कुरङ्गाक्षि ! कुरङ्गीव किमीक्षसे इति मृदङ्गो वादनीयः, विद्यादेवी च रात्रौ रोहिणीं कन्यां प्रत्युवाच - हे रोहिणि ! प्रभाते मृदङ्गवादकरूपेण कुजो वामनरूपधारी वसुदेवः समेष्यति स त्वया परिणेतव्यः, एह्येहीति मृदङ्गमध्ये वादयिष्यति । अथ प्रभाते स्वयंवरमण्डपं शृङ्गारितं, मध्यभागे स्वर्णमयस्तंभ ऊर्ध्वकृतः, चतुष्कोणेषु चतस्रः पुत्रलिकाः स्वर्णमय्यः स्वर्णरलाभरणमण्डिताः स्थापिताः सन्ति । अ ॥ १७२॥ For Private and Personal Use Only कल्पद्रुम कलिका वृतियुक्तं. व्याख्या.
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy