________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुरु, विद्यां अधीतां च स्मर । वसुदेवोऽपि राज्ञ आदेशं प्रमाणीकृत्य गृहे एव क्रीडति, नगरलोका अपि स्वस्था बभूवुः । एवं तिष्ठतः, उष्णकालः समागतोऽस्ति, एकदा राज्ञः समुद्रविजयस्य शरीरे विलेपनार्थ शिवादेव्याः चन्दनं घर्षयित्वा कच्चोलकं भृत्वा दास्याः हस्ते प्रहितमासीत् । अन्तराले वसुदेवेन दासीहस्ते वर्तुलकं आच्छादितं दृष्ट्वा पृष्टम्-किमस्ति तव हस्ते ? तदा दास्या उक्तम्-महाराझ्या महाराजस्य शरीरे विलेपनार्थं चन्दनं प्रहितमस्ति इति वसुदेवः श्रुत्वा बलात्कारेण दास्याः हस्ताद् गृहीत्वा स्वशरीरे प्रलिप्तवान् , तदा दासी रुष्टा प्राह-चेत् एतादृशो वर्तसे तदा गृहमध्ये कारागारे पतितोऽसि, कुमारोऽपि इति वाक्यं श्रुत्वा हठात् पृष्टवान् , तदा सर्वा वार्ता निवेदिता ।। लोकास्तव पूतकृति नृपाऽने चक्रुः । तस्मात् त्वं राज्ञा भ्रमणान्निवार्य, गृहमध्ये रक्षितोऽसि इति श्रुत्वा वसुदेवोऽन्तःकोपं कृत्वा मनसाऽऽलोच्य नगरलोकोपरि तथा नृपोपरि सामर्षः सन् मध्यरात्रे नगरात् एकाकी निःसृत्य एक अनाथं मृतकं नगरप्रतोलीद्वारे प्रज्वाल्य कपाटे स्वरुधिरेण इति लिखित्वा-भो भो नगरलोकाः! भ्रातुः सुखाय, भवतां सुखाय अहं चितायां प्रज्वलितोऽस्मि, भवद्भिः सर्वैः सुखिभिः भाव्यं इति कृत्वा प्राक्तनान् अन्वेषकान् | निषेध्य प्रचलितः, प्रायोऽपुण्यो मनुष्यः सम्पूर्णेऽपि रिक्तः, पुण्यवतो मनुष्यस्य अरण्येऽपि नगरं भवति, अथ प्रभातसमये | प्रतीहारेण प्रतोली यदा उद्घाटिता तदा मृतकं प्रज्वलितं दृष्टा अक्षराणि वसुदेवस्य लिखितानि चीक्ष्य राज्ञोऽग्रे निवेदितम्-राजा आगत्य दृष्ट्वा वसुदेवस्य मरणं ज्ञात्वा सर्वलोकैः सहितः शोकं चकार । राज्ञा समुद्रविजयेन वसुदेवस्य
For Private and Personal Use Only