________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥१७१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयोऽपि ईर्षां कुर्वन्ति परं स्त्रियो हि वसुदेवस्य रूपाकर्षिताः सत्यः किमपि न मन्यन्ते, वसुदेवश्च क्रीडार्थं एकवारं, द्विवारं, त्रिवारं वा रात्रौ वा दिवसे वा नगरे निस्सरति । स च यदा निस्सरति तदा पौरस्त्रिय एवमेव कुर्वन्ति, स्वभर्तृभिः निषिद्धा अपि न तिष्ठन्ति, गृहं शून्यं दृष्ट्वा चौराः प्रमुष्णन्ति । तदा सर्वैः लोकैः आगत्य वसुदेवस्य भ्रमणनिवारणाय समुद्रविजयो विज्ञप्तः । स्वामिन्! तव राज्ये वसतां अस्माकं कदाऽपि किमपि स्वप्नेऽपि दुःखं भयं वा नाऽऽसीत् । परं इदानीं वसुदेवकुमारो नगरमध्ये एकवारं द्विवारं त्रिवारं भ्रमति । राजकुमारत्वात् केनाऽपि निवारयितुं न शक्यते, नार्यस्तु तद्रूपमोहिता गृहाणि शून्यानि मुक्त्वा वसुदेवकुमारस्य पृष्ठे भ्रमन्ति, गृहाणि शून्यानि दृष्ट्वा 'चौरा मुष्णन्ति, तेन हेतुनाऽस्माकं कुत्रचित् अन्यत्र निवासाय स्थानं दातव्यं, इति अस्माकं विज्ञतिरस्ति । तदा समुद्रविजयो राजा हसित्वा पञ्चलोकान् उवाच - इयं वार्ताऽस्ति अत्र का चिन्ता, यूयं स्वकीयगृहे यात, यथा भवतां सुखं भविष्यति तथा करिष्यामि । इत्युक्त्वा लोकान् विसर्जयामास । अत्रान्तरे वसुदेवो राज्ञः समुद्रविजयस्य पादौ नन्तुं समागतः, समुद्रविजयो वसुदेवं उत्सङ्गे आरोप्य शरीरं हस्तेन संस्पृश्य, उवाच - भो भ्रातः ! अद्य कल्ये त्वं शरीरे दुर्बलो दृश्यसे ग्राममध्ये बहु पर्यटसि एकाकी सन्, यदा तदा भ्रमणं मा कुरु, केचित् सज्जनाः भवन्ति, केचिद् दुर्जना भवन्ति । दुर्जना अकाल - सकालवेलायां छलं दृष्ट्टा किञ्चिद् विरूपं दुःखं कुर्वन्ति । अथ बहु पर्यटतः पुरुषस्य अधीता विद्याऽपि सर्वा विस्मरति । तेनेदानीं त्वं मन्दिरेष्वेव मन्दिरोपासन्नारामेषु एव क्रीडां
For Private and Personal Use Only
कल्पद्रुम
कलिका
वृत्तियुक्त. व्याख्या.
६
॥१७१॥