________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ १७० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुद्रविजयः क्रोष्टकनिमित्तिकं आहूय पृष्टवान् - भो निमित्तिन् ! एष कीदृशः सम्बन्धः ?, जीवयशा-वसुदेवयोर्मेलापोऽवलोकितव्यः, तदा नैमित्तिकेन निमित्तं विचार्य उक्तम्- हे राजन् ! जीवयशा कन्या उभयकुलक्षयकारिणी वर्तते । पितुः कुलस्य च श्वसुरकुलस्य च परणीता सती क्षयंकरी भविष्यति । तस्मात् विचार्य कार्य कर्तव्यं, मम वचने कश्चित्सन्देहो नाऽस्ति । राज्ञा समुद्रविजयेन नैमित्तिको विसृष्टस्तद्वचनं मनसि धृत्वा चिन्तातुरो बभूव । किं करिष्यामि, वसुदेवेन सिंहभूपतिर्वद्धः श्रूयते, जरासिन्धुः स्वपुत्रीं वसुदेवाय दास्यति । जीवयशा तु उभयकुलक्षयंकरीति नैमित्तिकेन निवेदिता, तदा किं कर्तव्यमिति चिन्तातुरः समुद्रविजयस्तिष्ठति । तावद्वसुदेवः सिंहं बद्धा समुद्र विजयाऽभ्यर्णे समागतः सन् समुद्रविजयं सचिन्तं दृष्ट्वा चिन्तायाः कारणं पृष्टवान् हे राजन् ! अहं सिंहं बद्ध्वा यशः समुपार्ज्य समागतः । भवांस्तु एतादृशः सचिन्तः कथं दृश्यते, तदा एकान्ते वसुदेवाय समुद्रविजयेन निवेदितम् - हे भ्रातः ! जरासिन्धुस्त्वां स्वकीयपुत्रीं जीवयशां दास्यति सा च उभयकुलक्षयकारिणी वर्तते तेनाऽहं चिन्तातुरोऽस्मि । तदा वसुदेवेन निवेदितम्-मया सिंहो न बद्धोऽस्ति किन्तु कंसेन बद्धोऽस्ति । तदा सुभद्रं वणिजं आहूय कंसस्योत्पत्तिं पृष्ट्रा उग्रसेनपुत्रं ज्ञात्वा नामाङ्कितमुद्रिकां लात्वा सिंहं भूपतिं गृहीत्वा वसुदेवः कंसाय जरासिन्धुसमीपात् जीवयशां अदापयत् । जरासन्धस्य कंसस्योत्पत्तिरुक्ता, जरासन्धेन कंसं परिणाय्य मार्गितं सत् मथुराया एव राज्यं ददे । मथुरायां गत्वा, उग्रसेनं स्वपितरं काष्ठपञ्जरे क्षिप्त्वा मथुरायां राज्यं कंसश्चकार । तदा पितुर्दुःखं
For Private and Personal Use Only
कल्पद्रुम कलिका
वृतियुक्त.
व्याख्या.
६
॥ १७० ॥