SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नायां ददर्श, तदा तेन वणिजा प्रविश्य ता पेटां गृहीत्वा उद्घाट्य बालो निष्कासितः, निष्काश्य च प्रच्छन्नं मुद्रया सहितं बालं स्वप्रियायै ददौ, लोके इति प्रकटमुक्तं, मम स्त्रिया गूढगर्भया पुत्रः प्रसूतः, तस्य पुत्रस्य कंस इति नाम प्रदत्तं, स क्रमेण वर्द्धमानो बालः कंसः अपरान् डिम्भान् कुट्टयन् लोके दुर्दान्तो जातः, नित्यं नित्यं सुभद्रस्य लोका उपालम्भं ददुः । तदा सुभद्रेण ज्ञातं, अहं प्राकृतो वणिक्, अयं बालो राजवंश्यः, मद्गृहे कथं तिष्ठति । यथा| | स्थविराया गृहे सिंहः कथं समायाति, यथा सिंह्या दुग्धं स्वर्णभाजने तिष्ठति, अन्यधातुपात्रे न तिष्ठति, तथाऽयं राजबीजः राज्ञ एव गृहे विराजते एवं ज्ञात्वा कंसो वसुदेवकुमाराय समर्पितः, कंसोऽपि वसुदेवस्य सेवकीभूय स्थितः, वसुदेवः कंसे महती कृपां करोति । अस्मिन् प्रस्तावे वसुराज्ञो वंशे बृहद्रथराजा बभूव, तत्पुत्रः प्रतिवासुदेवः, प्रचण्डशासनो जरासन्धनामा भूपः अर्द्धचक्री राजगृहनगयां राज्यं पालयति, यादवाः सर्वे तस्याऽऽज्ञाकारिणः सेवकीभूय तिष्ठन्ति । तेन जरासिन्धुभूपेन, समुद्रविजयाय दूतः प्रेषितोऽभूत् , दूतेन सार्थ इति आज्ञापितम्-यो वैताढ्यपर्वतसमीपवर्तिनं सिंहपुराऽधिपं सिंहपल्लीपतिं जीवन्तं बद्ध्वा मम समर्पयति तस्मै जीवयशां मम पुत्री पाणिं ग्राहयामि, एकं प्रार्थितनगरस्य राज्यं ददामि इति दूतसार्थे लिखित्वा लेखः प्रहितः, समुद्रविजयस्तं लेख वाचयित्वा, सेनां सज्जीकृत्य सिंहपल्लीपतिं जेतुं यावत् प्रतस्थे तावद् वसुदेवकुमारः समुद्रविजयं निषेध्य स्वयं कंसेन सहितश्चचाल । वसुदेवस्तत्र गत्वा युद्धं चकार । युद्धमध्ये कंसो बलेन सिंहं बना वासुदेवाय समर्पयामास । पृष्ठतः For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy