________________
Acharya Shri Kailassagarsun Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पसूत्रं
॥१६९॥
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या,
यति तस्यैव गृहे मासक्षपणस्य पारणं करोति नान्यथा, यदि निमन्त्रणाकारको विस्मरति, तदा अपरं मासक्षपणं| करोति । परस्य गृहे पारणार्थ न याति । तेन वनमध्ये तापसेन मासक्षपणं प्रारब्धमस्ति, तत्र क्रीडार्थ आगतेन उग्र-| सेनराज्ञा तापसो दृष्टः । तापस प्रणिपत्य राज्ञा मासक्षपणपारणे निमन्त्रितः। अथ च पारणादिने राज्ञः स तापसो विस्मृतः, सन्ध्यां यावद् राजा आह्वातुं यदा नागतस्तदा तेन तापसेन द्वितीयं मासक्षमणं प्रारब्धं, पुनरपि कियद्भिः दिनैः राज्ञा स तापसः स्मृतः, मया तापसो न भोजितः, इदानीं गत्वा तं निमन्त्रयामीति विचार्य राज्ञा पुनरपि मासक्षमणस्य पारणाय निमन्त्रितः, पारणादिने पुनरपि विस्मारितः । तापसेन तृतीयं मासक्षमणं प्रारब्धं, तापसः राज्ञ उपरि रुष्टः, पापोऽयं राजा स्वयं नाह्वयति, अपरान् निमन्त्रयितुं न ददाति, यदाऽहं चेत् बिये तदाऽस्य दुःखाय भवान्तरेऽहं स्याम् । तापस इति निदानं कृतवान् , अनुक्रमेण स तापसो मृतः, मृत्वा उग्रसेनस्य भार्यायाः धारिण्याः कुक्षौ गर्भत्वेन उत्पन्नः, तृतीये मासे राश्यः कालेयभक्षणस्य दोहदो बभूव । अत्याग्रहेण राज्ञा पृष्टा सती राज्ञी दोहदं उवाच, प्रधानेन बुद्धिबलेन पूरितः । अनुक्रमेण राज्या दुष्टं गर्भ ज्ञात्वा, अनेके शातन-पातनप्रयोगाः गर्भपातनार्थं कृताः, परं स गर्भो न पपात, पूर्णेषु मासेषु पुत्रो जातः, तदा राज्ञा नामाङ्कितमुद्रिकां बद्धा कांस्यपेटिकायां तं जातमात्रं बालं प्रक्षिप्य यमुनायां सा कांस्यपेटा प्लाविता । सा काश्यपेटा वहन्ती वहन्ती मथुरातः सौरीपुरे समागता, प्रातः समये समुद्राख्यो रसवणिम् घृत-तैल-गुड-लवणविक्रेता शौचार्थ आगतस्तां पेटां यमु
॥१६९॥
For Private and Personal Use Only