SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यवतीनाम्नी, गङ्गायाः पुत्रस्तु गाङ्गेयः, स तु भीष्म इति लोके प्रसिद्धिं गतः, भीष्मकर्मकरत्वात् , सत्यवत्याश्च द्वौ पुत्रौ, एकश्चित्राङ्गदः, द्वितीयश्चित्रवीर्यः, अथ शान्तनुराजा चित्राङ्गदपुत्राय राज्यं दत्त्वा परलोकं प्राप्तः। अथैकदा |चित्राङ्गदः संग्रामे शत्रुभियुद्धं कुर्वन् मृतः। ततः चित्रवीर्यो राजा स्थापितः। तस्य तिम्रो नार्यः, प्रथमा अम्बिका, अम्बालिका, अम्बा । अम्बिकायाः पुत्रो धृतराष्ट्रः, तस्य गन्धारीप्रमुखा अष्टौ नार्यः, तासां सुयोधनप्रमुखाः एकशतं पुत्राः। द्वितीयायाः अम्बिकायाः पुत्रपाण्डुस्तस्य स्त्री कुन्ती, तस्याः कुक्षिभवास्त्रयः पुत्राः युधिष्ठिर-भीम-अर्जुनाः । पाण्डुराज्ञः अपरा स्त्री पद्मा, अन्यद् नाम माद्री अपि, तस्याः कुक्षिभवौ द्वौ पुत्रौ-नकुल-सहदेवी, एवं पाण्डुभूपस्य पञ्च पुत्राः। चित्रवीर्यस्य तृतीयभार्यायाः विदुरनामा पुत्रोऽभूत्। एतेषां विस्तारसम्बन्धस्तु पाण्डवचरित्राद् ज्ञेयः, इति पाण्डवानां संक्षेपेण नाममात्र सम्बन्धः उक्तः। कुन्ती पाण्डुनृपाय परिणायिता, द्वितीया माद्री चेदिपुर्याः पत्ये दमघोपाय परिणायिता, दमघोषस्य शिशुपालोऽभूत्, एवं कृत्वा अन्धकवृष्णिर्दीक्षां जग्राह, मथुराया राज्यं उग्रसेनः पालयति । तस्य भार्या धारिणीनाम्नी आसीत् । शौरीपुरे समुद्र विजयो राजा राज्यं करोति । तस्य भार्या शिवादेवी वर्तते । अन्ये नवाऽपि भ्रातरः कुमारावस्थाया सुखेन एकत्र तिष्ठन्ति । अन्यदा समुद्रविजयस्य शिवादेव्याः चतुर्द शस्वप्नसूचितो नेमिकुमारः पुत्रो जातोऽस्ति । एकदा मथुरायां सुखेन उग्रसेनस्य राज्ञो राज्यं पालयतः, वनमध्ये एको IN मासोपवासी तापसः समाजगाम । तस्य तापसस्य एतादृशो नियमोऽस्ति-मासक्षपणस्य मध्ये यः कश्चिदागत्य निमन्त्र For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy