________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं ॥१६८॥
अपरो लघुपुत्रः सुवीरः, अथ सूरनृपो बृहत्पुत्रस्य शौरिनानो मथुराया राज्यं दत्त्वा, सुवीरस्य युवराज्यं च दत्त्वा । | कल्पद्रुम स्वयं चारित्रं जग्राह । अथ शौरिनृपः मथुराया राज्यं लघुभ्रातुः सुवीरस्य दत्त्वा स्वयं शौरिः कुशावर्त्तदेशे गत्वा कलिका स्वकीयनाम्ना शौरीपुरं नाम नवीननगरं वासयित्वा, तस्य राज्यं पालयामास । सुवीरो मथुराया नगर्या राज्यं करोति ।।
वृत्तियुक्त.
व्याख्या. अथ शौरिराज्ञः अन्धकवृष्णिः पुत्रो बभूव । सुवीरस्य भोजगवृष्णिः पुत्रो बभूव, भोजगवृष्णेः पुत्र उग्रसेन इति । आसीत् । भोजगवृष्णिस्तु उग्रसेनस्य मथुराया राज्यं दत्त्वा स्वयं दीक्षां ललौ । अथ अन्धकवृष्णेः दश पुत्रा बभूवुः। | तेषां दशानां पुत्राणां नामानि-आद्यः समुद्रविजयः १, अक्षोभः २, स्तिमितः ३, सागरः ४, हिमवन्तः ५, अचलः ६, धरणः ७, पूरणः ८, अभिचन्द्रः ९, वसुदेवः १० । दशाऽपि दशार्हा इति कथ्यते । अथ अन्धकवृष्णेः बृहत्पुत्रः समुद्रविजयः, तस्य शौरीपुरस्य राज्यं दत्तं, अन्धकवृष्णेश्च पुत्रीद्वयं चाऽऽसीत् । कुन्ती, माद्री च, कुन्ती पाण्डवे प्रदत्ता, माद्री दमघोषाय दत्ता । अथ पाण्डवानां उत्पत्तिः वर्ण्यते__ पुरा श्रीऋषभदेवस्य पुत्रः कुरुनामाऽभूत् , तस्य नाम्ना कुरुदेशः आसीत् , ततः पश्चात् असङ्ख्याः राजानोऽभूवन् , ॥१६॥ तत्रैकेन हस्तिनागपुरं बासितं, ततः पश्चात् कियत्यपि काले गते सति सुभूमचक्रवर्ती बभूव । ततो बहवो नृपा जाताः, ततः एकः शान्तनुराजा बभूव, तस्य द्वे पल्यौ अभूता, तयोरेका विद्याधरपुत्री गङ्गानाम्नी, द्वितीया नाविकस्य पुत्री
For Private and Personal Use Only