SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवी अपिआरोग्या सती, तया शिवादेव्या अरिष्टनेमिः प्रसूयते स्म । जन्माधिकारः-श्रीनेमिनाथस्य महावीरवद्र ज्ञेयः। परं अयं विशेषः-समुद्रविजयो जन्ममहोत्सवं कृत्वा सर्वान् स्वजनान् भोजयित्वा नामदानप्रस्तावे 'अरिष्ट-| नेमिः' इति नाम दत्तं, अतो अरिष्टनेमौ मातुर्गमें गर्भवेन समुत्पन्ने सति चतुर्दशस्वप्रावलोकनाऽनन्तरं एक अरिष्टरत्नस्य चक्रं शिवादेव्या दृष्टं तेन खमविचारेण 'अरिष्टनेमिः' इति स्वजनसमक्ष नाम प्रदत्त, लोकानाम्-1 अरिष्टानि अमङ्गलानि चूरयामास । अथ बालत्वे श्रीअरिष्टनेमिकुमारं इन्द्राणी क्रीडयति । अङ्गष्ठे अमृतं सञ्चारयति, भगवान् यदा क्षुधितो भवति तदा अङ्गुष्ठं लेढि । सामान्यलोकबालवद् मातुः स्तन्यं न पिबति । पञ्चधात्रीभिः लाल्यमानः क्रमाद् अरिष्टनेमिः वर्तते स्म । शरीरे श्यामवर्णः, प्रलम्बकर्णः, सर्वाङ्गसुन्दराऽऽकारः श्रीनेमिकुमारः बालैः देवैः सह क्रीडां करोति । | १ तस्मिन् समये किं स्वरूपं जातं तदुच्यते-तत्र यादवानां मूलादुत्पत्तिः वर्ण्यते-अग्रेऽपि दीक्षाऽवसरे सूत्रकारो वक्ष्यति । “वारवई नगरी, मझमझेणं" श्रीअरिष्टनेमिद्वारिकानगरीमध्ये भूत्वा-जन्म सौरीपुरे जातं, दीक्षा द्वारिकायां जाता। सौरीपुराद् द्वारिकायां यथा यादवानां आगमनं जातं तथा कथ्यते-पूर्व मथुरायां बहुषु हरिवंशीयनपेषु जातेषु सत्सु एको यदुनामा राजाऽभूत् , तस्य पुत्रः सुरनामा बभूव, तस्य द्वौ पुत्रौ बभूवतुः, तत्र प्रथमः शौरिः, For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy