________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चित्रानक्षत्रे देवलोकात् च्युत्वा मातुः कुक्षौ गर्भत्वेनाऽरिष्टनेमिरुत्पन्नः । चित्रानक्षत्रे जन्म जातं, चित्रानक्षत्रे चारित्रं गृहीतं, चित्रानक्षत्रे केवलज्ञानमुत्पन्नम् चित्रानक्षत्रे मोक्षो बभूव ॥
एवं नाममात्रेण पञ्च कल्याणकानि उक्त्वा इदानीं विस्तारवाचनया सूत्रकारः प्राह
ते काणं तेणं समयेणं अरहा अरिट्ठनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्ति - अबहुले, तस्स णं कत्तियबहुलस्स बारसीपक्खे णं अपराजिआओ महाविमाणाओ बत्तीससागरोवमट्टि आओ अनंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नयरे समुहविजयस्सरणो भारियाए सिवादेवीए पुवरत्तावरत्तकालसमयंसि चित्ताहिं नक्खत्तेणं जोगमुवागणं गभत्ताए वक्कते । सर्व्वं तहेव सुमिणदंसणदविणसंहरणाइअं इत्थ भाणि - यवं ॥ १७० ॥
अर्थः- तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः वर्षाकालस्य चतुर्थे मासे सप्तमे पक्षे कार्तिकमासे कृष्णपक्षे द्वादशीदिने पञ्चानुत्तरविमानानां मध्ये उत्तरदिशास्थाद् अपराजितनाम्नो विमानात् ३२ सागरायु
For Private and Personal Use Only