________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशाखानक्षत्रे शुक्लध्यानं ध्यायतः अनन्तं अनन्तार्थग्राहकत्वात्, अनुत्तरं सर्वोत्कृष्टं, केवलवरज्ञानं केवलब - रदर्शनं समुत्पन्नं, तेन ज्ञानेन सर्व लोकालोकं जानाति, पश्यति स्म । श्रीपार्श्वनाथः केवलज्ञाने तथा केवलदर्शने षड्द्रव्याणां भावं परिणमनं जानन् पश्यन् विहरति स्म । तस्मिन्नवसरे चातुर्निकायकानां देवानां मेलापः सञ्जातः । तैर्देवैः वप्रत्रयं अशोकवृक्षादिमहाप्रातिहार्याष्टकशोभा विहिता । चतुःषष्टिर्देवेन्द्राः मिलिताः । भगवता श्रीपार्श्वनाथेन सिंहासने पूर्वाभिमुखमुपविश्य द्वादशपर्षदोऽग्रे धर्मश्चतुर्धा निरूपितः, तदा देशनां श्रुत्वा बहुभिः जीवैः प्रतिबोधो लब्धः । चतुर्विधस्य सङ्घस्य स्थापना कृता । अथ भगवतः परिवारः कथ्यतेपासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा, अट्ठ गणहरा हुत्था, तं जहा - सुभे य १, अज्जघोसे य २ वसिट्ठे ३, बंभयारि य ४ । सोमे ५ सिरिहरे ६, चेव, वीरभद्दे ७ जसे विय ८ ॥ १ ॥ १५९ ॥
अर्थ:-श्री पार्श्वस्य अर्हतः पुरुषादानीयस्य अष्टौ गणाः, अष्टौ गणधरा आसन् । तद् यथा - शुभः १ आर्यघोषो २ वसिष्ठो ३ ब्रह्मचारी ४ सोम्यः ५ श्रीधरो ६ वीरभद्रो ७ यशोभद्रः ८- एते अष्टौ गणधराः । एतेषां पृथक् पृथग द्वादशाङ्गीरचना ततोऽष्टौ गणा गच्छा आसन् ।
For Private and Personal Use Only