________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति, किश्चिद् औत्पातिकवादीत | रे दुष्टमेघमालिन् । त्यसकागलच्छेदं प्रामोति तथा
पद्मावत्या सहितः समागत्य स्वामिनं खस्कन्धे उत्पाव्य मस्तकोपरि सहस्रफणानां छत्रं विधाय स्थितः। पद्माबती जया-विजया-वैरोव्यादिभिः खसखीभिः सह अग्रे अन्तरिक्षे नाटकं चकार । वेणुवीणामृददतालादिध्वनि विस्तारयामास । एवं त्रीणि दिनानि जातानि, तदा धरणेन्द्रेण ज्ञातं-इदं तु स्वाभाविकं मेघवर्षणं न भवति. किञ्चिद औत्पातिकं दृश्यते एव । अवधिज्ञाने मेघमालिकृतं भगवता सह प्राग्भववैरानुबन्धात् चिकृतज्ञातं ज्ञात्वा धरणेन्द्रः अवादीत् । रे दुष्टमेघमालिन् ! त्वया किमारब्धं । अजाकृपाणीन्यायेन अनेन तवैव अभव्यं भविष्यति । यथा अजा खड्ड्रेन गलस्य खर्जू खनति, खकीयगलच्छेदं प्रामोति तथा भगवतः कृतोपसर्गः तवैव दुःखाय भविष्यति । अथ चाऽयं वीतरागः कृपालुरस्ति, परन्तु अहं भगवत्सेवकः तवेदं दुष्टत्वम् अतः परं न सहिष्ये । अरे! खामिना तु पश्चाग्निं साधयतस्तव सम्यग दयामय उपदेशो दत्तः। स च उपदेशस्तव क्रोधाय सञ्जातः । सत्यं लवणक्षेत्र मेघजलं लवणाय भवति । तवाऽपि भगवद्वचनं अमृतोपमं विषवजातं । एतादृशानि क्रोधवाक्यानि धरणेन्द्रस्य श्रुत्वा भीतो मेघमाली मेघमायां संहत्य स्वामिनः पादयोलगति
स्म । स्वाऽपराधं क्षमयामास, सम्यक्त्वं प्राप । श्रीपार्श्वनाथस्य मन्त्रनिबद्धस्तोत्रेण स्तवनां चकार । ततो धरणेमान्द्रेण सह वन्दनां कृत्वा मेघमाली स्वस्थानं जगाम | धरणेन्द्रोऽपि प्रभोवन्दनां कृत्वा पद्मावत्या सहितः पाताले
गतः । ततः तन्त्र स्थाने लोके शिवनगरी इति मूलनाम परावर्त्य अहिच्छत्रा इति नाम प्रतिष्ठितं । तत्र अहि
श्रीपार्श्वनाथस्य मनभावन्दनां कृत्वा पापातष्ठितं । तत्र
।
क्र.स.२८
For Private and Personal Use Only