________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
कल्पसूत्र
॥१६॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
नसहते, क्षमते शक्ती सत्यामपि क्षमते, अध्यासयति मनसः स्थैर्य धत्ते इत्यर्थः। अथ भगवतोऽष्टमतपसः कोप
दसन्निवेशे धन्यनाम्नो गृहस्थस्य गृहे परमान्नेन पारणं जातं तत्र पञ्च दिव्यानि देवाश्चक्रुः, सार्द्धद्वादशकोटीः सौवर्णिकानां ववर्ष । छद्मस्थावस्थायां विहरतः श्रीपार्श्वनाथस्य कलिकुण्डपार्श्वनाथस्य स्थापना जाता। पुनः कुक्कुटेश्वरपार्श्वनाथस्याऽपि स्थापना सञ्जाता। जीवितस्वामितीर्थस्थापना जाता । एवं एकदा श्रीपार्श्वनाथो विहरन् शिवनगर्याः पार्थे तापसाश्रमे आगतस्तदा सूर्योऽस्तं जगाम । तत्रैकः पुराणः कूपो वटवृक्षश्चैकोऽस्ति, तत्रैव कायोत्सर्गे स्थितः । अस्मिन् अवसरे स कमठजीवो मेघमाली देवः स्वामिनं प्रतिमास्थं दृष्ट्वा सक्रोधो जातःभगवन्तं उपद्रोतुं लग्नः । पूर्व वेतालरूपाणि विकुळ अट्टहास पयामास । पश्चात् सिंहरूपेण उपसर्ग चकार, वृश्चिकैः सर्पः ददंश । एवं बहुभिरुपसर्गः यदा स्वामी न चुक्षोभ तदा विशेषेण क्रुद्धो मेघमाली देवो मेघघटाः विकुळ यादृश्यः कृष्णपक्षस्य रात्रयस्तादृशीभिर्यामाभिर्मेघघटाभिराकाशं आच्छादयामास।कल्पान्तकालमेघवद् मेघो वर्षितुं लग्नः । गर्जारवस्तु ब्रह्माण्ड स्फोटयन इव बभूव । एवं गर्जन विधुदुल्लासैः विश्वं भापयन् मुसलप्रमाणधाराभिः ववर्ष । तदा खामिनः कायोत्सर्गस्थितस्य क्षणाद् जानुप्रमाणं क्षणात् कटिप्रमाणं क्षणादाकण्ठं जलं बभूव । तथाऽपि श्रीपार्श्वप्रभुः नासाग्रन्यस्तदृष्टिः ध्यानाद् मनाम् अपि न अचालीत् । तस्मिन् क्षणे धरणेन्द्रस्य आसनप्रकम्पो जातः, तदा धरणेन्द्रेणाऽवधिज्ञानाद् भगवतः स्वस्य प्राग्भवस्य गुरोरुपसर्ग दृष्ट्वा स
॥१६२॥
For Private and Personal Use Only