SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नाम उद्यानं तत्र अशोकवृक्षस्य अधः शिविकां स्थापयित्वा शिविकात् उत्तीर्य स्वयमेव आभरणमाल्यालङ्काराणि शरीरात् उत्तार्य स्वहस्तेनैव पञ्चमुष्टिं लोचं कृत्वा चतुर्विधाहारत्यागं अष्टमं तपः कृत्वा च विशाखानक्षत्रे चन्द्रसंयोग प्राप्ते सति एक देवदृष्यवस्त्रं इन्द्रेण प्रदत्तं स्कन्धे धृत्वा त्रिशतैः (३००) राजपुरुषैः सार्द्ध दीक्षां गृह्णाति । श्रीपार्श्वनाथस्य स्कन्धे इन्द्रो देवदृष्यवस्त्रं मुश्चति । अन्येषां त्रिशत (३००) साधूनां स्थविरकल्पानां १४ उपकरणानि देवाः प्रयच्छन्ति । खामी एवंप्रकारेण अगारं गृहवासं त्यक्त्वा अनगारो भवति । पासे णं अरहा पुरिसादाणीए तेसीइं राइंदियाइं निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तं जहा-से दिवा वा माणुस्सा वा तिरिक्खजोणिआ वा अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्मं सहइ, तितिक्खइ, अहियासेइ ॥ १५७ ॥ अर्थ:-श्रीपार्श्वनाथोऽहन पुरुषादानीयः८३ व्यशीतिदिनानि यावद नित्यं व्युत्सृष्टकाया-त्यक्तशरीरः,ये केचिद् उपसर्गाः उत्पद्यन्ते-ते उपसर्गाः देवैः कृता वा मनुष्यैः कृता वा तिर्यककृता वा अनुलोमा वा शरीरसुखदाः स्रक्चन्दनवनिताद्याः, प्रतिलोमा वा शरीरस्याऽसुखकराः भयोत्पादका वा, तान् सर्वान् उपसर्गान् सम्यक् For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy