________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का इति पञ्चपरमेष्ठिमनं श्रावयामास । तौ अपि प्रभोः दर्शनात् प्रभुणा प्रदत्तमन्त्राक्षरधारणाद् मृत्वा पातालमध्ये नागकुमारयोनौ उत्पन्नौ । नागस्तु धरणेन्द्रो बभूव । नागिनी च तद्भार्या पद्मावती देवी सञ्जाता। अथ तत्रस्थो लोकः सर्वोऽपि प्रभोर्ज्ञानं दृष्ट्वा प्रभुं तुष्टाव । तं तापसं निनिन्द-धिक एनं एनं अज्ञानिनं, कष्टकारिणं, जीवहिंसाविधायिनं, अस्य पापस्य दयाहीनस्य सर्वमपि तपो व्यर्थमेव इति लोकमुखात् खां निन्दा, पार्श्वनाथस्य श्लाघां श्रुत्वा स तापसस्ततश्चचाल । अथ पाचप्रभोरुपरि पूर्व तु विरोध आसीद् एव, ततस्तु अधिकतरो बभूव । एवं स कमठतापसः पृथिव्यां भ्रमन् अज्ञानतपश्चरन् भगवता सह प्रद्वेषं वहन् मृत्वा अज्ञानतपःप्रभावात् मेघ-| माली देवः सञ्जातोऽस्ति । अत्रान्तरे एकदा वसन्तऋतौ सकले दिवसे श्रीपार्श्वनाथो वनमध्ये क्रीडां कृत्वा सन्ध्यासमये खकीयावासे समागतः। तत्र भित्तौ श्रीनेमिकुमारस्य सर्वोऽपि वृत्तान्तो लिखितोऽस्ति । यथापाणिग्रहणाय सर्वैर्यादवैः सह तोरणं यावत्समागमनं, पशूनां वाटकेभ्यः बन्धनान्मोचनं, राजीमत्यास्त्यजनं, | गिरिनारपर्वते दीक्षाग्रहणादिखरूपं लिखितं दृष्ट्वा वैराग्यभावं प्राप्तः श्रीपार्श्वनाथस्तावत् लोकान्तिकदेवा आगत्य खामिनं स्तुत्वा दीक्षायै उन्मुखं खामिनं कुर्वन्ति । ततः श्रीपार्श्वप्रभुरपि सांवत्सरिकदानं ददातिपासे अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाई अगा
For Private and Personal Use Only