SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥१५९॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. इदं ज्ञानविचारं न वेत्सि, कष्टमात्रं करोषि तस्माद्दयापूर्व ज्ञानगर्भितं तपश्चरणं कुरु । यत उक्तम्-हयं नाणं [कियाहीणं हया अन्नाणिणो किया' क्रियाहीनं ज्ञानं हतं, अज्ञानिनः पुरुषस्य क्रिया हता। 'पासंतो पंगुलो दड्डो| धावमाणो य अंधलो' पश्यन् सन् पङ्गुर्दग्धः, धावन् अन्धो दग्धः । अन्धपङ्गुपुरुषयोः मेलापे उभयोरपि अग्निसकाशात् निःसरणमासीत् एकाकिनौ भवतः तदा उभौ अपि अकिश्चित्करौ । तथा-"ज्ञानक्रियाभ्यां मोक्षः" इति श्रीपार्श्वनाथेन तस्य तापसस्य धर्मोपदेशः प्रोक्तः। तदा स तापसो रुष्टः । यदुक्तम् उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवलं विषवर्द्धनम् ॥१॥ श्रीपार्श्वनाथं प्रत्याह-भो राजकुमार ! भवान् शस्त्रपरीक्षासु, तथा गजाऽश्वपरीक्षासु निपुणो वर्तते । पुनर्भवान् राजनीतिं जानाति, परं त्वं धर्मनीति न जानासि । अस्माभिः पञ्चाग्नितपस्यया इन्द्रियाणि दम्यन्ते । विषयेभ्यो निवृत्तिः क्रियते । अस्यां तपस्यायां का जीवहिंसा वर्तते? । चेद्वर्तते तर्हि दर्शय, नोचेकिमर्थं वृथा अस्माकं तपखिनां निन्दा करोषि इत्युक्ते सति श्रीपार्श्वनाथः खसेवकेभ्यः एकं महत् काष्ठखण्डं प्रज्वलत् निष्काश्य यत्नेन कुठारेण विदार्य ततः काष्ठखण्डात् सर्पयुगलं प्रज्वलद् निष्काश्य सर्वजनस्य समक्षं दर्शया- मास । पुनस्तयोर प्रज्वलितयोः सर्पसर्पियोः स्तोकं आयुः ज्ञात्वा श्रीपार्श्वनाथः 'ॐ असिआउसाय नमः' १ हतं ज्ञानं क्रियाहीनं हता अज्ञानिनः क्रिया । २ पश्यन् पङ्गुलो दग्धो धावंश्च अन्धः । ३ कुत्रचित् एक एव सर्प उपलभ्यते । ॥१५९॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy