SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir स्थितोऽस्ति । खामिनः साथै बहवो नागरिकाः समागताः सन्ति आश्चर्यं द्रष्टुम् । तदा भगवान् श्रीपार्श्वनाथः ज्ञानत्रयेण विराजमानो जीवहिंसां दृष्ट्वा अवादीत् अहो ! तपखिन् ! तवेदं अज्ञानतपः । यतः - अज्ञानिनो महत्कष्टं अल्पं फलं, दयाहीनस्य अज्ञानिनः तपश्चरणादिकं सर्वं व्यर्थमेव दयाहीनो धर्मो निष्फलः । यत उक्तम् कृपामहानदीतीरे, धर्माः सर्वे तृणाङ्कुराः । तस्यां शोषमुपेतायां, कियन्नन्दन्ति तेऽङ्कुराः १ ॥ १ ॥ दया एव महानदी वर्तते, तस्याः नद्यास्तटे सर्वे यावन्तो दानशीलतपोभावलक्षणा धर्माः तृणाङ्कुराः सन्ति । तस्यां कृपानद्यां वर्द्धमानायां ते सर्वे धर्माः वर्धन्ते यदा तस्याः कृपामहानद्याः शोषो भवति तदा सर्वे धर्माः तृणाङ्कुरा इव शुष्यन्ति । एतावता कृपां विना न कश्चित् धर्मः, सर्वोऽपि कष्टरूप इत्यर्थः । अथ पुनस्त्वं पञ्चा नितपःखरूपं न जानाति । अग्निषु प्रज्वालितेषु पञ्चाग्नितपो न भवति । अत्र तु प्रत्यक्षं षड्जीवनिकायस्य हिंसा दृश्यते । यत्र च हिंसा स धर्मो न भवति, तस्मात् पञ्चाग्नितपस्तु इदमस्ति - “पञ्चाग्निरिन्द्रियाणां तु विषयेन्धनचारिणां । तेषां तिष्ठति यो मध्ये, स वै पञ्चतया स्मृतः” ॥ २ ॥ पञ्चेन्द्रियाणां विषयास्त्रयोविंशतिसंख्यास्त एव इन्धनरूपाः, ते च तपोऽग्निना प्रज्वाल्यन्ते इत्यनेन इन्द्रियनिरोधः कर्तव्यः, इन्द्रियनिरोधं कृत्वा यस्तिष्ठति स पञ्चेन्द्रियसाधकः - पञ्चाऽग्निसाधकस्तपखी उच्यते । त्वं तु For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy