SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥१५८|| नानी माहिरेकस्यादिशि नगरलोकाः सर्वेऽपि पकानामा सह विषयसुखानि भु स्थितिः। अथ खामी श्रीपार्श्वनाथः कल्पवृक्षाकरवन्नित्यं वर्धते । अनुक्रमेण वर्धमानो नवहस्तोन्नतशरीरः, मेरु-IN कल्पद्रुम वद् धीरशरीरः, नीलकमलवर्णः, यौवनं प्राप्तः । तदा कुशस्थलनगराधीशस्य श्रीप्रसेनजिभूपस्य प्रभावतीनाम्नी कलिका | पुत्री स्वामिने श्रीपार्श्वनाथाय परिणायिता । श्रीपार्श्वनाथः प्रभावत्या प्रियया सह विषयसुखानि भुञ्जन् सुखेन । वृत्चियुक्त तिष्ठति। अथैकदा पार्श्वस्वामिना गवाक्षस्थितेन नगरलोकाः सर्वेऽपि पक्वान्नादिकं भक्ष्यभोजनं स्थालेषु धृत्वा उपरि व्याख्या आच्छाद्य नरा नार्यश्च प्रामावहिरेकस्यादिशि कुत्रचिद् ब्रजन्तोदृष्टाः, तदा सेवकं मुक्त्वा शुद्धिः कृता-कुत्रैते| जना यान्ति ? लोका आहुः-स्वामिन् ! अत्रैको बहिरुद्याने तपस्वी पञ्चाऽग्निसाधको महातापसः कमठनामा समागतोऽस्ति । तद्वन्दनाय तभक्तये यान्ति एते नगरलोकाः। तदा खामिना ज्ञानेन ज्ञात-अयं तु कमठनामा आजन्मदरिद्रब्राह्मणस्य पुत्रो बालखे एव मृतमातापितृको जनैः कृपया वर्द्धितः, क्षुधादिदुःखैः पी-| डितः तापसी दीक्षां गृहीत्वाऽत्रागतोऽस्ति । निर्दयोऽज्ञानी क्रोधादिकषायपूर्णो लोकान् विप्रतारयितुं समागतोऽस्ति । किमर्थमस्य उद्घाटनमुद्घाट्यते इति ज्ञात्वा श्रीपार्श्वस्वामी स्थितः। तस्मिन् समये श्रीवामया राज्या लोकानां आग्रहात् तापसं द्रष्टुं मनः कृतं, हस्ती आरोहणाय सज्जीकृतः,श्रीपार्श्वकुमारोऽपि मात्राग्रहाद् दयाया| ॥१५॥ लाभं च परिज्ञाय गजमारुह्य जनन्या सह द्रष्टुं चलितः । तापसेनाऽपि वार्ता श्रुता-वामा राज्ञी पार्श्वकुमारेण सह नमस्कर्तुं समागच्छति । तेन बृहत्काष्ठनिचयः प्रज्वालितश्चतुर्दिक्षु, पञ्चमः अग्निप्रायः सूर्यः प्रज्वलति, मध्ये स्वयं For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy