________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थः-यस्यां रात्रौ श्रीपार्श्वनाथो भगवान् जातस्तस्यां रात्रौ बहूनां देवानां तथा देवीनां अव्यक्तशब्देन तथा हास्येन भृशं आकुलत्वं अभूत् । अथ ५६ दिकुमारीभिः सूतिकाकर्मकरणं, ६४ चतुःषष्टिदेवेन्द्रर्मेरुमस्तके जन्ममहोत्सवकरणं, स्वर्णरत्नादिवृष्टिकरणं, तथा प्रभातसमये अश्वसेनेन राज्ञा पुत्रजन्मकथकाय अभीष्टदानं, पश्चाद बन्दिमोक्षणं, मानोन्मानवर्द्धनं,नगरे शोभाकरणं, दश दिवसान् यावत् कुलस्थितिकरणं पूर्ववत् सिद्धार्थनपतिवत् वक्तव्यम् । अत्र अयं विशेष:-द्वादशे दिवसे सर्वज्ञातीयजनान् भोजयित्वा पार्श्वकुमार इति नाम प्रदत्तम् । तद्विचारस्तु अयं-अन्धकारवत्यां अपि रजन्यां पार्थे श्याम अहिं गच्छन्तं दृष्ट्वा राज्या वामादेव्या श्रीअश्वसेनस्य राज्ञः करो भूमौ लम्बायमानः उच्चैः शय्यायां गृहीतः तदा नृपेण राज्ञी पृष्टा, कथं निद्रायां मम हस्तस्त्वया उच्चैः गृहीतः ? तदा राझ्या वामादेव्या उक्तम्-स्वामिन् ! अत्र श्यामः सर्पो याति तेन मया भवतो हस्त उच्चैः गृहीतः । तदा राज्ञा ज्ञातं-एतादृश्यां कृष्णायां रात्रौ राज्ञी सर्प पश्यति-अयं गर्भस्यैव प्रभावः, तस्माद् यदाज्यं बालो भविष्यति तदाऽस्य बालस्य पार्श्व इति नाम दास्यामि इति राज्ञा प्रागविचारितं आसीत् । तेन द्वादशे दिने सर्वान् भोजयित्वा मातृपितृभ्यां सर्वजनसमक्षं पार्श्वकुमार इति नाम दत्तम् । अथ भगवन्तं बाल्याऽवस्थायां इन्द्रो देवान् मुक्त्वा खामिनं खेलयति, खयमपि कुमाररूपं विधाय सह क्रीडति । अङ्गुष्ठे अमृतं सञ्चारयति, यावद् अग्निपकाहारं न करोति, तावद् अङ्गष्ठं लिहति । सर्वेषां तीर्थकराणां इयं |
For Private and Personal Use Only