________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थ्यामिति । एवं चेवेति पद्मप्रभसूत्रमिवपुष्पदन्तसूत्रमप्यध्येतव्यम् एवमनन्तरोक्तस्वरूपेण एतेनानन्तरत्वात्प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसंग्रहणिगाथा अनुगन्तव्याः, अनुसर्तव्याः, शेषसूत्राभिलापनिष्पादनार्थम् ॥ पउमप्पभस्सेत्यादि । तत्र पद्मप्रभस्य चित्रानक्षत्रे
च्यवनादिषु पञ्चसु स्थानकेषु भवतीत्यादि गाथाक्षरार्थो वक्तव्यः सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षादर्शित एव इतरेषां त्वेवम्-सीयलेणं अरहा. |पंच पुव्वासाढे होत्या, तं जहा-पुब्वासाढाहिं चुए चइत्ता गम्भं वक्ते, पुव्वासाढाहिं जाए, इत्यादि । एवं सर्वाण्यपीति ॥ व्याख्या त्वेवम्पुष्पदन्तो नवमतीर्थकर आनतकल्पादेकोनविंशतिसागरोपमस्थितिकाद् फाल्गुनबहुलनवम्यां मूलनक्षत्रे च्युतः, फ्युत्वा च काकन्दीनगर्या सुग्रीवराजभार्यायाः रामाभिधानाया गर्ने व्युत्क्रान्तो मूलनक्षत्रे मार्गशीर्षबहुलपञ्चम्यां जातः, तथा मूल एव ज्येष्ठ शुद्धप्रतिपदि मतान्तरेण | मार्गशीर्षबहुलषष्ठयां निष्कान्तः, तथा मूल एव कार्तिकशुद्धतृतीयायां केवलज्ञानम् उत्पन्नम् , तथा अश्वयुजः शुद्धनवम्याम् आदेशान्तरेण वैशाखबहुलषष्ठयां निर्वृत इति, तथा शीतलो दशमजिनः प्राणतकल्पाद् विंशतिसागरोपमस्थितिकाद् वैशाखबहुलषष्ट्यां पूर्वाषाढानक्षत्रे च्युतः, च्युत्वा च भद्दिलपुरे दृढरथनरपतिभाया नन्दायाः गर्भतया व्युत्क्रान्तः, तथा पूर्वाषाढाखेव माघबहुलद्वादश्यां जातः तथा पूर्वाषाढा| खेव माघबहुलद्वादश्यां निष्क्रान्तः तथा पूर्वाषाढावेव पौषस्य शुद्धे मतान्तरेण बहुलपक्षे चतुर्दश्यां ज्ञानमुत्पन्नं तथा तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणबहुलद्वितीयायां निर्वृत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या-नवरं चतुर्दशसूत्रेऽभिलापविशेषोस्तीति तदर्शनार्थमाह ॥ समणे इत्यादि ॥ हस्तोपलक्षिता उत्तरा हस्तोत्तरा हस्तो वा उत्तरो यासां ता हस्तोत्तरा उत्तराफाल्गुन्यः पञ्चसु च्यवनगर्भहरणादिषु हस्तोत्तरा यस्य स तथा गर्भाद् गर्भस्थानात् गम्भं ति' गर्भे गर्भस्थाना
For Private and Personal Use Only