SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र LA ॥१५५|| कल्पद्रुम कलिका बृचियुक्त. व्याख्या. ऽपि सार्थः दशदिशासु पलायनं चकार । अरविन्दराजर्षि दृष्ट्वा गजो मारणाय आजगाम । साधुप्रभावात् यदा निकटं समागतस्तदा स्तम्भितः, साधुसंदर्शनादेव तस्य गजस्य ऊहापोहं कुर्वतः जातिस्मरणज्ञानमुत्पन्नं । प्रागभवो गजेन दृष्टः । अरविन्दं उपलक्ष्य शुण्डां प्रसार्य पादयोलग्नः । साधुनाऽपि तद्भवं ज्ञात्वा धर्मोपदेशेन . मरुभूतिजीवः प्रतिबोधितः । सम्यक्त्वं अङ्गीकारितं । लोकैः सर्वैरपि तत्वरूपं दृष्ट्वा तत्र बहुभिः प्रतिबोधः संप्राप्तः। गजेन श्राद्धधर्मो गृहीतः। ततः सार्थस्य सार्थे श्रीअरविन्दराजर्षिः चलितः, चारित्रं प्रपाल्य सद्गति प्राप्तः । अथ मरुभूतिजीवो हस्ती एकदा उष्णकाले दावानलभयात् सरसि पानीयार्थं प्रविष्टः। पङ्के एव खिन्नः अग्रे गन्तुं पश्चाद् वलितुं च अक्षमोऽभूत् । तत्र कमठजीवोऽपि कुक्कुटोरगो दावानलभयात् त्रस्तः पर्यटन तं गजं पङ्के विखिन्नं दृष्ट्वा पूर्वभववैराद् उड्डीय मस्तके आरुह्य ददंश। तद्वेदनया विषाों धर्मध्यानात् श्राद्धधर्मपालनाच्च मृत्वा हस्ती जीवस्तृतीये भवे अष्टमदेवलोके सहस्रारनाम्नि देवत्वेनोत्पन्नः कुक्कुटोरगसो दावानले मृत्वा पञ्चमनरके नारकत्वेनोत्पन्नः। इति तृतीयो भवः। अथ मरुभूतिजीवो अष्टमदेवलोकाच्च्युत्वा चतुर्थे भवे अस्मिन् जम्बूद्वीपे पूर्वमहाविदेहे सुकच्छविजये वैताव्यपर्वतस्य दक्षिणश्रेण्यां तिलकवत्यां नगर्या विद्युद्गतिभूपः, तद्भार्या | कनकवती,तयोः पुत्रत्वेन जातः । किरणवेग इति नाम प्रदत्तम् । अनुक्रमेण किरणवेगो यौवनावस्थायां राज्यं प्राप्य सुरूपाभिः प्रियाभिः विषयसुखं भुञ्जानः एकदा गवाक्षे स्थितः सन्ध्यारागस्वरूपं दृष्ट्वा प्राप्तवैराग्यो मुनीनां पार्श्वे ॥१५५॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy