________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
आसन , इदानीं श्लाघां चक्रुः । अत एव लोको बोकः उभयवदनः । तदा मरुभूतिरपि चिन्तयामास-मभ्राता वृद्धो मया विरोधितः सन् दुःखान्निर्गत्य तापसोऽभूत् । अथाऽहं तत्समीपे गत्वा, तत्पादयोः लगित्वा स्वाऽ|पराधं क्षामयित्वा, तं नत्वा, स्तुत्वा, आयामीति चिन्तयित्वा, एकान्ते मरुभूतिः कमठस्य समीपे गतः । यावत् तस्य पादयोलगित्वा खाऽपराध क्षमयति तावन्मरुभूतेः शिरसि कमठेन कठोरण हन्तुं शिला प्रक्षिप्ता, तया शिलया मरुभूतेः शिरश्चर्णितमाऽऽसीत्।मरुभूतिश्च तद्वेदनया आरटन् आर्त्तध्यानेन मृत्वा द्वितीये भवे विन्ध्याचलस्य अटव्यां सुजातोरुनाना हस्ती सञ्जातः । कमठोऽपि ततोभीतश्चलित्वा दुष्टकर्मवशात् मृत्वा, अत्रैव वने कुक्कुटोरगो विहगवत् सर्पो बभूव-कुक्कुटाकृतिः सर्पः सञ्जातः। इति द्वितीयः भवः। अथारविन्दभूपतिः कमठमरुभूत्योः खरूपं श्रुत्वा संसारमसारं परिज्ञाय कस्यचित्साधोः समीपे दीक्षां ललौ । अनुक्रमेण अरविन्दराजर्षिः एकादशाङ्गान्यधीत्य उग्रतपः कुर्वन् एकाकी विहरन् एकदा सागरचन्द्रनाम्नः सार्थवाहस्य साथै सम्मेतशिखर तीर्थस्य यात्रायै प्रचलितः।यस्मिन् विन्धाचलस्य वने मरुभूतिजीवोगजत्वेन उत्पन्नोऽस्ति,तस्मिन्नेव वने सार्थवाहस्य सार्थः समुत्तीर्णोऽस्ति। सर्वेसार्थस्य लोकाः स्वकीयकार्येषु लग्नाः सन्ति, अरविन्दराजर्षिः एकान्ते सरोवरस्य पाल्यां कायोत्सर्गेण स्थितोऽस्ति । अस्मिन्नवसरे हस्तिनीनां परिवारेण परिवृतः जलपानाय आगतो मरुभूतिजीवो हस्ती लोकानां कोलाहलं श्रुत्वा सार्थस्य गजाऽश्ववृषभोष्ट्रादीन् विलोक्य क्रुद्धः सन् उपद्रवं चकार । तदा सर्वो
For Private and Personal Use Only