________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्रं
॥१५॥
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
वर्तते । अन्यदा मरुभूतेः स्त्रीं एकान्ते सर्वावयवसुन्दरी पूर्णचन्द्रसमानवदनां दृष्ट्वा कमठः कामपीडितः सन वसुन्धरां कामाय प्रार्थयामास । एवं वारद्वयं त्रयं कमठेन प्रार्थ्यमाना सती साऽपि कमठे रागवती जाता-कमठासक्ता बभूव । कियति च काले कमठवसुन्धरयोः दुराचारो वरुणया कमठस्य भार्यया ज्ञातोस्तदा वरुणया | कमठो निषिद्धः।हे स्वामिन् ! त्वं अकार्याद् विरम, नो चेत् मरुभूतिज्ञास्यति तदा लोकेषु निन्दां कृत्वा त्यां निष्कासयिष्यति, प्रीतिर्यास्यति, राजाऽपि श्रुत्वा विरुद्धं करिष्यति । एवं वरुणया बहुनिवारितोऽपि कमठः अकार्यात् न विरमति स्म । तदा रुष्टया एकदा मरुभूतेः पुरतो वसुन्धराकमठयोरनाचारो वरुणया निवेदितो मरुभूतिना न मानितः । ज्ञातं चेत् अहं खदृष्ट्या विलोकयिष्यामि तदा मानयिष्यामि इति विमृश्य एकदा किञ्चिद् मिषं कृत्वा गृहान्निर्गत्य द्वितीये तृतीये दिवसे रात्री कार्पटिकरूपं विधाय निवासं याचयित्वा, रात्री स्थित्वा, तयोर्दुराचारं मरुभूतिर्ददर्श । तदा कुपितः अरविन्दभूपाग्रे गत्वा कमठस्य अनाचारं निवेदयामास । अरविन्दभूपोऽपि कमठस्य दुराचारं श्रुत्वा कमळं सन्तय॑-निर्भय चौरवत् विडम्बनां कृत्वा नगरमध्ये भ्रामयित्वा नगरात् निष्कासयामास । मरुभूतिं पुरोहितं चकार । कमठो लोके लज्जितः सन् दुःखगर्भितं वैराग्यं प्राप्य तापसस्य पार्श्वे तापसी दीक्षा ललौ । एकदा बहीं पृथ्वी भ्रमन् भ्रमन् पोतनपुरस्य पार्श्वे एकस्य पर्वतस्य उपरि आगत्य आतापनां चकार । सर्वे लोकाः तं द्रष्टुं गताः । लोकाः सर्वे तं प्रशंसयामासुः । पूर्व निन्दा कुर्वाणा
। तदा कुपितः अबकापटिकरूपं विधाम इति विमृदय
॥५४॥
For Private and Personal Use Only